________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः स्यान्मतम्-तत्प्रत्ययेन नीलादभिन्नस्य ग्रहणेऽपि कथम् अर्थता गम्यते ? प्रतिभासादिति चेत् ; स्वप्नादिदृष्टा[नामपि] स्यादिति तज्ज्ञानमपि प्रमाणमेव । [तथा] च किं प्रमाणलक्षणप्रणयनेन व्यवच्छेद्याभावात् । दुष्टकारणजनितदर्शनविषयत्वान्नेति चेत् ; दर्शनं तत्तथेति कुतः ?
अर्थ (अनर्थ) विषयत्वात् ; अन्योऽन्यसंश्रयः-सिद्धे हि तथादर्शने तद्विषयस्य अनर्थत्वम्, अतः ५ तथा दर्शनमिति । बाधितप्रत्ययगोचरत्वान्ने त्यपि नोत्तं (त्तरम् :) तस्य हि बाधनं नोदयकाले स्वरूपापहारः; तदा तत्प्रतीतेः । अन्यदा तु नश्वरत्वेन स्वयमेव नास्ति केन तद्वाधनम् ? दैवरक्ता हि किंशुकाः, न तत्र नः प्रयासः । नापि विषयापहारः; तस्यापि [११ख दर्शनात् । न च विषयापहारः प्रमाणधर्मः अपि तु नराधिपस्य । अथ न विषयस्यापहारो बाधनम्, अपि तु तँस्य
सतः प्रतिभासज्ञापनम् ; तदपि न सुन्दरम् ; यतो यद्यसौ असन ; कथं प्रतिभासः खरशृङ्गवत् ? १० अथ प्रतिभासः; कथमसन् ? जाग्रदृष्टो घटादिरपि तथैव स्यात् । 'धिङ् मिथ्यैतद् वितर्कितं नायं
घटादिः किन्त्वन्यदेतत्' इति प्रत्ययानुत्पत्तेर्नेति चेत् ; ननु मरीचिकायां जलदपिनो (जलार्थिनोऽपि) झटिति मरणे देशान्तरगमने वा[न]स प्रत्ययो जायते इति तज्जलं सत्यं स्यात् । सत्यपि च अर्थविशेषे क्वचित् स प्रत्ययो दृष्टः । अयमपि प्रत्ययो यद्यसदर्थः; कथमन्यस्य असदर्थतां ज्ञाप
यति, अतिप्रसङ्गात् । सदर्थश्चेत् ; पूर्ववत् प्रसङ्गोऽनवस्था च । किञ्च, अयं प्रत्ययः पूर्वप्रत्ययसमा१५ नविषयश्चेत् ; न तस्य कथञ्चिदपि बाधकः, अन्यथा सर्वेषाम् एकार्थज्ञानानामन्योन्यं बाध्यबाधक
भावे (वो) भवेत् । भिन्नविषयश्चेत् ; सुतरां न तस्य बाधकः, इतरथा घटज्ञानं पटज्ञानस्य बाधकमस्तु । नेति प्रत्ययानुत्पत्तेर्नेति चेत् ; स एव प्रत्ययः कुतो न जायते ? एकाधिकरणत्वाभावात्"; रजतशुक्तिकाप्रत्ययोः कथमेकाधिकरणत्वम् , प्रमाणाभावात् ? पूर्वोत्तरप्रत्ययाभ्यां
'तेदप्रतीतेः इति क्षणभङ्गे चर्चितमेतत् । तन्न बाध्यमानज्ञानगोचरत्वात् स्वप्नदृष्टनीलाद्यनर्थत्वम् । २० विसंवादिदर्शनगोचरत्वादिति चेत् ; न दृष्टार्थप्राप्तिः अविसंवादः, सा स्वप्नेऽपि दृश्यते । अथ
असौ” अर्थ एव न भवति अनर्थक्रियाकारित्वात् ; अर्थक्रियापि तत्र दृश्यते [१२क] जलादिकार्यस्य स्नानादेर्दर्शनात् । अथ जाग्रतात् दर्शनात् सा अर्थक्रियैव न भवति; तर्हि "अन्यापि न स्यात् सुप्तेनाऽदर्शनात् । किश्च, यदि अर्थक्रिया असती; कथम् अतोऽन्यस्य सत्त्वम् ? सती
"बोधमात्रसंगमो हि स्वप्नेतरप्रत्ययसंभवी समान एव सर्वत्र"-प्र. वार्तिकाल. पृ०४। (२) स्वप्नदृष्टार्थज्ञानमपि। (३) न स्वप्नदृष्टार्थज्ञानं प्रमाणम् । (४) स्वप्नदृष्टार्थज्ञानस्य । “न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते, तत्काले तस्य स्वयमेव नाशात् । न चाक्षिनिमीलनानष्ट ज्ञाने बाध्यता प्रतीयते ।"-प्र. वार्तिकाल. पृ०४। (५) "देवरक्ता हि किंशुका केन रज्यन्ते नाम" -प्रमेयक० पृ० ७५ । "दवरक्ता हि किंशुकाः क एनानधुना रञ्जयति ।"-प्र० वार्तिकाल. पृ० ३७४ । "देवरक्ता हि किंशुकस्तवकावतंसकाः ।"-प्र. वार्तिकाल. पृ० ५८४ । (६) "अन्येन नहि ज्ञानेन तस्य विषयापहारोऽसत्ताज्ञापनलक्षणो बाधः। न च स्वविषये प्रवृत्तमन्यविषयापहारं रचयितुमलम्. स्वविषय(ज्ञान) स्वविषयस्य रूपसाधनं हि ज्ञानानां धर्मः । परविषयापहरणं तु नराधिपधर्मः।"-प्र. वार्तिकाल. पृ० ३५९ । (७) स्वप्नदृष्टस्य । (८) प्रतिभासमात्रमेतत् इति ज्ञापनम् । (९) असन् स्यात् । (१०) न घटादिरसन् किन्तु सत्यः । (११) चेत् । (१२) पूर्वेण उत्तरस्य उत्तरेण च पूर्वस्याज्ञानात् नैकाधिकरणत्वप्रतीतिरिति भावः। (१३) स्वप्नदृष्टः । (१४) जाग्रतेन सा अर्थक्रिया न क्रियते अतः सा अर्थक्रियैव न भवति । (१५) जाग्रदृष्टार्थक्रियापि अर्थक्रिया न स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org