________________
१॥३
स्वार्थविनिश्चयः फलम् तत्रेदं चिन्त्यते-अर्थग्रहणकार्यदर्शनात् तंत्र योग्यतास्ति इति गम्यते, न तस्याः तद्ग्रहणम् , कार्यानुमेयत्वात्तस्याः । अथ तत एव सा गम्यते इति मतिः ; तर्हि ततो योग्यतासिद्धिः अतश्च तत्सिद्धिरिति अन्योन्यसंश्रय इति चेत् ; उच्यते-*"यथा सुतीक्ष्णोऽपि असिः नात्मानं छिनत्ति तथा ज्ञानं न [स्वं] परिच्छिनत्ति स्वात्मन्यर्थक्रियाविरोधात्" इत्यत्र यदुक्तम् *"ज्ञानम् आत्मानं परिच्छिनत्ति तथाशक्तिः (क्तेः) नासिः छिनत्ति विपर्ययात्" इति; ५ तत्राप्यस्य समत्वात् । तद्यथा स्वग्रहणात् तच्छक्तिसिद्धिः कार्यानुमेयत्वात्तस्याः न पुनः ततस्तद्प्रहणसिद्धिः । स्वग्रहणसिद्धेः तत्सिद्धिरिति चेत् ; अन्योन्यसंश्रयः - शक्तिसिद्धेस्तद्ग्रहणसिद्धिः तस्याः तच्छक्तिसिद्धिरिति । अथ स्वग्रहणं प्रत्यक्षतः सिद्धम् , 'तत् कुतः' इति चोधे 'स्वशक्तितः' इत्युत्तरमुच्यते न पुनः तस्याः तत्सिद्धिः; तदेतदन्यत्र समं न चेति (वेति) चिन्त्यम् । भवतु स्वरूपवत् नीलादेरपि तेनँ ग्रहणं को दोष इति चेत् ? अयम्-*"यदवभासते [११क] १० तज्ज्ञानं यथा सुखादि अवभासते च नीलादिः" इत्यत्र स्वस्य स्वेनैव अवभासस्य सुखादौ ज्ञानत्वेन व्याप्ततया दृष्टस्य नीलादावदर्शनाद् असिद्धो हेतुः स्यादिति, इतरथा स्वसंवेदनात्मकत्वेन तस्य ज्ञानान्तरत्वात् सर्वज्ञज्ञानवत् वादिप्रतिवादिभ्यामविषयीकरणात् तौ प्रति आश्रयासिद्धता स्यात् । अर्थान्तरस्यापि ज्ञानस्य मतः (सतः) तस्य "ताभ्यां ग्रहणं नार्थस्य सतः इति किंकृतो विभागः ? अथ चित्रैकज्ञानमतमवलम्ब्य अहम्प्रत्यय[स्य] नीलाद्याकारैकत्वमिष्यते यदि; १५ तर्हि स्वभावादिभिन्नोऽप्यहम्प्रत्ययः कदाचिद्. योग्यतया नीलादिना एकत्वमुपयाति तैयैव तद्ग्राहकत्वमुपयाति तयैव तद्ग्राहकः स्यात् । तदनभ्युपगमे पुनरिदं भवेत् श्रोत्रियो 'न चाण्डल्या दर्शनमिच्छामि स्पर्श त्विच्छामि' इति ।
(१) प्रत्यये। (२) योग्यतायाः । (३) तेन अर्थग्रहणेन ग्रहणम् । (१) अर्थग्रहणादेव । (५) तुलना-"ननु नीलं कथमात्मरूपं प्रकाशयति ? न हि प्रकाश्या घटादयः प्रदीपादिना स्वप्रकाशकाः, आत्मनि क्रिया विरुद्ध्यते। न हि सैवासिधारा तयैव छिद्यते । अत्र परिहारः-प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी॥३३०॥ अवेद्यवेदकाकारा'"स्वात्मनि क्रियाविरोध इति कता प्रमाणादवगतम् । न हि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः। समीहितस्य विपर्ययेऽपि दृष्टान्तस्य प्रदीपस्य संभवात् । यदि घटः प्रदीपेन बाह्यात्मना प्रकाश्यते, प्रदीपोऽपि तथाभूतेनापरणेति न पर्यनुयोगः..'वस्तस्वभाव एष इति का वान क्षतिः ? अथ स्वात्मनि क्रियाविरोध इति; उच्यते-यदा स्वरूपन्तत्तस्य तदा कैव विरोधिता। स्वरूपेण विरोधे हि सर्वमेव प्रलीयते ॥ न हि स्वेनैव रूपेण कस्यचिद्विरोधः। तथा चेन किञ्चिद्भवेत् स्वेन रूपेणेति सकलमस्तंगतं भवेत् । छेदस्तु पुनर्विशिष्टोत्पादन न च तेनैव तस्योत्पादनम् । अयमेवार्थः स्वात्मनि क्रियाविरोध इति । स्वप्रकाशरूपं तु तस्य स्वरूपं न तेनैव विरुध्यते..."-प्र० वार्तिकाल.पृ. ३५३-५४ । “अत्र केचिदाहुः न चित्तचैत्तानां स्वसंवेदनं घटते स्वात्मनि कारित्वविरोधात। न हि सुशिक्षितोऽपि बटुः स्वस्कन्धमारोढुं शक्नोति । न हि तीक्ष्णाऽप्यसिधारा आत्मानं छिनत्ति । न हि सुप्रज्वलितोऽपि वह्विस्कन्ध आत्मानं दहति तथा चित्तचैत्तमपि कथमात्मानं प्रत्येतु ?...अत्रोच्यते न कर्मकर्तभावेन वेद्यवेदकत्वं ज्ञाने वर्ण्यते । किं तर्हि ? व्यवस्थाप्यव्यवस्थापकभावेन । यथा प्रदीप आत्मानमात्मना प्रकाशते तथा ज्ञानमपि जडपदार्थविलक्षणं स्वहेतोरेव प्रकाशस्वभावमुपजायमानं स्वसंवेदनं व्यवस्थाप्यते ।"-तर्कभा० मो० पृ. ९-१०। (६) स्वग्रहणशक्तेः । (७) स्वशक्तेः । (८) अहम्प्रत्ययेन । (९) नीलादेः । (१०) नीलादेः । (११) वादिप्रतिवादिभ्याम् । (१२) 'तयैव तद्ग्राहकत्वमुपयाति' इति निरर्थक भाति । (१३) वदति यदहम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org