________________
१४
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
नीलादेः ग्राहकः ; नीलादिः 'तस्य स्यात् अविशेषात् " `इति; तन्निरस्तम् । यदि हि समानकालत्वादेकस्य धर्मः सर्वस्य स्यात् ; तर्हि चित्रे नीलाकारवत् नीलता पीताद्याकारेऽपि स्यात् पीताद्या[१०] कारता वा नीले, ततः कथं चित्रं नाम, यतः * " चित्रं चित्रमेव" इति भवेत् ? प्रत्यक्षबाधा अन्यत्रापि । न खलु यथा ग्राहकता अहम्प्रत्यये प्रत्यक्षतः प्रतीयते तथा (त) प्रतीयते । यथा वा नीलादेर्ग्राह्यता तथा तं प्रति तत्प्रत्ययस्य सा इति, अन्यथाऽविवा - दात् सौगतमेव सकलमिति शास्त्रप्रणयनमनर्थकम् ।
स्यान्मतम् - न नीलादितत्प्रत्ययाभ्याम् अन्या ग्राह्यता ग्राहकता च प्रतीयते; नन्वेवं तैयोः स्वरूपग्रहणमपि दुर्लभम्, अत्रापि न तत्स्वरूपादन्या ग्राह्यता ग्राहकता वा, न च तदभावे तद्ग्रहणम् । यदि पुनः स्वप्रकाशरूपत्वात् स्वग्रहणम् ; तर्हि अहम्प्रत्ययस्य परप्रकाशनरूपत्वात् परग्रहणमस्तु, नीलादेश्च परप्रकाश्यरूपत्वात् परेण ग्रहणम् । न वै जैनेन स्वभावभूतयोग्यतायाः अन्या ग्राह्यता ग्राहकता वा अभ्युपगम्यते । तदुक्तम्
१०
*“स्वहेतुजनितोऽप्यर्थः स्वयं ग्राह्यो यथा मतः ।
तथा ज्ञानं स्वहेतूत्थं स्वयं तद्ग्राहकं मतम् ||" [ लघी० लो० ५९ ]
१५
93
एतेनेदमपि प्रत्यक्षं (प्रत्युक्तं) यदुक्तं परेण - * “यदि नीलादेः स्वभावभूतगृहीतिकरणात् संप्रत्ययो ग्राहकः; तर्हि ते से' एव जनितः स्यात् इति तस्य [ज्ञानता ] ज्ञानकार्यत्वात् उत्तरज्ञानवत् । अथ अर्थान्तरगृहीतिकरणाव ( द ) र्थस्य न किञ्चित् कृतमिति न तेन' ग्रहणम् । गृहीत्या पुनर्गृहीतिकरणे अनवस्थानम् ।" इति" । कथम् ? स्वरूपग्रहेऽध्यस्य समत्वात् । तथाहि - स्वरूपस्य गृहीतिकरणाद् विज्ञानं चेद् ग्राहकम् ; 'तैंत्तस्य जनकं स्यात् न ग्राहकम्, न चैतद् युक्तम्, स्वात्मनि क्रियाविरोधात् । ततो भिन्नाय : 'तस्याः करणा-[१०ख] ददोषश्चेत्; स्वरूपस्य न किञ्चित् कृतमिति कथं तेन ग्रहणम् ? तया पुनर्गृहीतिकरणे अनवस्था - नम् । साक्षात् स्वरूपग्रहणम् अर्थेऽपि । ननु " स्वग्रहणशक्त या अर्थग्रहणे 'तैयोरैक्यम् । अन्यया चेत्; एकस्य शक्तिद्वयम्, तदपि अन्येन तद्द्वयेन वेद्यते इत्यनवस्था स्यादिति चेत्; इदमपि वक्ष्यमाणेन चित्रकज्ञानेन सुपरिहारमिति तिष्ठतु तावत् ।
२०
ननु यदुक्तम्- नीलादेर्ग्रहणे अहम्प्रत्ययस्य योग्यताऽस्ति न तस्य तत्प्रत्ययग्रहणे इति
(१) अहम्प्रत्ययस्य ग्राहकः । (२) तुलना - " समकालश्चेत्तर्हि यथा ज्ञानमर्थस्य ग्राहकम् एवमर्थोऽपि ज्ञानस्य ग्राहकः स्यात् । समसमयभावित्वाविशेषात् । ( पूर्वपक्षः) - स्या० रा० पृ० १६२ । प्रमेयक० पृ० ८५ । (३) नीलादौ । ( ४ ) प्रतीयते । (५) अहम्प्रत्ययस्य । (६) ग्राह्यता । (७) नीलादितस्प्रत्यययोः । (८) ग्राह्यग्राहकतयोरभावे । ( ९ ) परस्य ग्रहणम्, अर्थात् पर ग्राहकत्वमस्तु । (१०) संप्रत्ययेन । ( ११ ) नीलादिरेव जनितः, यतो हि तस्य स्वभावभूता गृहीतिस्तेन जन्यते । ( १२ ) नीलादेः । (१३) भिन्नगृहीत्युस्पादने च । (१४) संप्रत्ययेन । (१५) तुलना - "अथ गृहीतिकरणादर्थस्य ज्ञानं ग्राहकम्, ननु सा अर्थादर्थान्तरम् अनर्थान्तरं वा तेन क्रियते ? अर्थान्तरत्वे अर्थस्य न किञ्चित्कृतमिति कथं तेनास्य ग्रहणम् ? तस्येयमिति सम्बन्धासिद्धिश्व । तयाप्यस्य गृहीत्यन्तरकरणेऽनवस्था । अनर्थान्तरत्वे तु तत्करणे अर्थं एव तेन क्रियते इत्यस्य ज्ञानता ज्ञानकार्यत्वात् उत्तरज्ञानवत् । " - प्रमेयक० पृ० ८५ । (१६) विज्ञानं स्वरूपस्य । (१७) गृह्णीतेः । (१८) स्वार्थग्रहणात्मकज्ञानपक्षे । (१९) स्वार्थयोः । ( २० ) नीलादेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org