________________
२३]
स्वार्थविनिश्चयः फलम् प्रवृत्तौ अविसंवादनियमायोगात् । तद्धे तुत्वं पुनः सन्निकर्षादिवन्न दर्शनस्य । अभ्रान्तत्वेऽपि सर्वथा निर्णयवशात् प्रामाण्यसिद्धेः कथञ्चित् तदात्मकत्वं तत्त्वबुद्धेरभ्युपगन्तव्यम् । अन्यथा तदफलमसाधनमसतो न विशेष्येत । अकिश्चित्करसंशयविपर्ययव्यवच्छेदेन निर्णयात्मकत्वं नान्यथा । अनधिगतार्थाधिगन्त विज्ञानं प्रमाणमित्यपि केवलमनिीतार्थनिर्णीतिरभिधीयते, अन्यथा अतिप्रसङ्गात् । अधिगतमात्रस्य विसंवादकस्य साध-५ नान्तरापेक्ष्यगोचरस्य साधकतमत्वानुपपत्तेः । तदनधिगतस्वलक्षणाधिगतावपि दृष्टे प्रमाणान्तराप्रवृत्तिप्रसङ्गात् । समानभूतसमारोपव्यवच्छेदे संवृत्यनुमानयोन कश्चिद्विशेषः । साक्षादनुभवादुत्पत्तिः महानपराधः । प्रतिपत्तुरुत्तरं प्रमाणंतत्साधनभावात् न तु पूर्वकम् , अनुमानेऽप्येवं प्रसङ्गात् । ]|
प्रमाणस्य करणविशेषस्य यत् फलं साक्षाद् अव्यवहितं न व्यवहितं हानादिबुद्धिलक्ष- १० णम् । तत् किम् ? इत्यत्राह-सिद्धिः इति । सिद्धिशब्दवाच्यम् । ननु 'तत्र आचार्याणां विप्रतिपत्तिदर्शनात् किं तत्फलमिति पृष्ट इव तदर्शयन्नाह-स्वार्थविनिश्चयः इति । स्वं च विज्ञानस्वरूपम् अर्थश्च घटादिः, यदि वा, स्वोऽर्थः स्वग्रहणयोग्यो भावः तयोः तस्य वा विनिश्चयोऽकिञ्चित्करत्वादिव्यवच्छेदेन तद्ग्रहणम् । द्वितीयव्याख्यानेन घटाद्यर्थाग्राहिणीनां सुखादिवित्तीनामपि स्वरूपार्थनिश्चायकत्वेन प्रमाणत्वमुक्तं वेदितव्यम् । ननु न नीलादिव्य- १५ तिरेकेण अपरमस्ति यस्य स्वार्थविनिश्चयः फलं स्यात् । नीलादिरेवेति चेत् ; [९ख] न ; तस्य स्वनिश्चऽयेपि अर्थनिश्चयाभावात् ततोऽन्यस्य अर्थस्योभावात् 'स्वार्थविनिश्चयः' इत्यनुपपन्नम् । 'अथ द्वितीयं व्याख्यानमाश्रित्य एतद्युक्तमित्युच्यते ; न ; तत्र विज्ञप्तिवादो भ[व] तोऽनिष्टं स्यात् , नीलादेः स्वग्राहकत्वेन ज्ञानतापत्तेः । शरीरसुखादि ततः परम् , तस्य स्वरूपवत् नीलादावपि प्रवृत्तेरयमदोष इति चेत् ; न ; शरीरस्य नीलादिवत् प्रमेयत्वात् , सुखादेश्च २० नीलादिग्राहकत्वानभ्युपगमात् न स्वार्थेत्यादि युक्तमिति चेत् ; न ; अहमहमिकया प्रतीयमानायाः संवित्तेः ततोऽन्यस्याः अयत्माये (अभावे) नीलादौ कः समाश्वासः सुखादौ वा ? यत इदं स्यात्- *"नीलादि ज्ञानं प्रतिभासमानत्वात् सुखादिवत्" इति । नन्वस्तु अहम्प्रत्ययः"; स तु 'स्थूलोऽहं कृशोऽहम्' इति शरीरसामानाधिकरण्येन प्रतीतेन शरीराद् भिद्यते अपि तु तदेव," तस्य च नीलाद्यग्राहकत्वमुक्तमिति चेत् ; न ; चार्वाकमतचर्वणे चर्वणमस्य भविष्यति । इति किमत्रैवोत्सुकिमन (त्सुक्येन) ? भवत्वयं ततो भिन्नः ; तथापि कथं नीलादेहिक इति चेत् ; कथं स्वरूपस्य ? "तत्र "तस्य प्रतिभासाच्चेत् ; नीलादेरप्यत एव ग्राहकोऽस्तु, तथा च लौकिकी प्रतीति:-'नीलमहं वेद्मि पीतमहं वेद्मि' इति । ततो यदुक्तम्-*"यदि समानकालस्य
(१) फले । (२) आदिपदेन संशयविपर्ययौ ग्राह्यौ । (३) ग्राहकम् । (४) नीलादेः। (५) नीलादेः। (६) शरीरसुखादेः । (७) स्वार्थविनिश्चय इति । (८) नीलादेर्भिन्नाया इति । (९) “यथा च न सुखादि व्यतिरेकेणापरं विज्ञान तथा नीलादिव्यतिरेकेणापि” -प्र. वार्तिकाल० ३।३८७ । (१०) नीलादेः परः । (११) शरीरस्वरूपमेव । (१२) शरीरस्य च । (१३) शरीरादेः । (१४) अहम्प्रत्यये । (१५) स्वरूपस्य । (१६) प्रतिभासादेव।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org