________________
१२
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
मस्ति, इतिं न तत्र किञ्चित् प्रमाणम्, तदद्वैतस्य च स्वसंवेदनाध्यक्षसिद्धत्वात् न तत्र विप्रतिपत्तिरप्रतिपत्तिर्वा यत्तन्निरासार्थं प्रमाणलक्षणप्रणयनम् । अतो व्यर्थमेतद्यक्ष (त्- अध्यक्ष ") इत्यादि; तत्राह-सिद्धिश्चेत् । इदमत्र चिन्त्यते - सर्वविकल्पातीतप्रतिभासो वा तत्र प्रमाणं स्यात्, ‘घटमहं वेद्मि’ इत्यादि प्रतिभासो वा ? तत्र प्रथमपक्षं दूषयन्नाह - सिद्धिः प्रमाणं चेत् यथेका५ नेकत्वादिभेदशून्यं प्रतिभासमात्रम् उपलब्धिमात्रम् उपलम्भनम् उपलब्धिः, सैव तन्मात्रम् । यदुक्तम्–*“प्रतिभासः प्रतिभास एवेति कथं तत्प्रमाणम् ?" इति; अत्राह - 'घटमहं वेद्मि' इत्यादि प्रतीतिः निर्णीतिः तस्या विना तामन्तरेण तदभावः । कथम्भूतायाः ? अविसंवादैकहेतोः अविप्रतिपत्तेरेकस्य हेतोः । भवत्वेवं को दोष इति चेत्; अत्राह - क्षणिकादिसिद्धिः क्षणिक आदिर्यस्य सारूप्यसन्तानान्तरादेः तस्य सिद्धिः प्रमाणं पराभ्युपगताऽनुमी १० न स्यात् स्वयं सौगतस्य तद्वत् पुरुषोपलब्धिर (ब्धेर) निवारणेन तैया बाधनादिति मन्यते । संवृत्या सा प्रमाणमिति चेत्; अत्राह - सर्वथा परमार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात्, तद्वत् नित्येश्वराद्यनुमानमपि प्रमाणं स्यादिति निरूपयिष्यते । निर्णीतिरेव तर्हि प्रमाणमिति चेत् ; अत्राह -1 :-निर्णीतिः स्वपरव्यवसायात्मिका बुद्धिः [९] यदि प्रमाणम् निर्विकल्पम् -' अहम ज्ञानं ग्राहकं ग्राह्यो घटादि: तद्वयवसायः फलम्' इति विकल्पो भेदः तस्मान्निष्क्रान्तम् अद्वयवेदनं १५ न स्यात् प्रमाणं स्वतः स्वरूपेण । ततो यदुक्तम् - * " प्रमाणमविसंवादिज्ञानम् इत्यादि व्यवहारेण प्रमाणलक्षणमुक्तम्, अज्ञातार्थप्रकाशो वेति परमार्थेन, प्रमाणान्तरेण अज्ञातस्य अद्वयप्रतिभासार्थस्य आत्मवेदनस्य एवमभिधानात् ।" इति ; तन्निरस्तम् । शेषं पूर्ववत् व्याख्येयम् । ननु च यदि नीलादि: अर्थतर्द्विभ (अर्थ: न ) तद्वयतिरेकेण 'तग्राहक मस्ति अनुपलम्भात्, शरीरसुखादेः प्रमेयत्वेन तदग्राहकत्वमिति कथं निर्णीतिः प्रमाणमिति चेत्; न; आ२० त्तोत्तरस्य अनन्तरं च [व] क्ष्यमाणत्वात् ।
का पुनरियं सिद्धिः प्रमाणात्मनि या उपचारात् प्रवर्तत इति चेत्; अत्राह - 'प्रमाणस्य' इत्यादि ।
२५
[" प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चयः । प्रतिपत्तुरपेक्ष्यं यत् प्रमाणं न तु पूर्वकम् ॥ ३॥
स्ववृत्तिः– यथास्वं प्रमेयस्य व्यवसायो यतस्तदेव स्वतः प्रमाणम् । ज्ञानं प्रमाणम् अन्यतः
(१) "परमार्थश्च द्वैतरूपता, तत्प्रकाशनमेव प्रमाणम् । तथा च प्रत्ययादिस्वरूपस्य स्वतो गतिरिति " - प्र० वार्तिकाल० २१५ | पृ० ३० । “विचार्यमाणं सकलं विशीर्यते नाद्वैतादपरं तत्त्वमस्ति । " - प्र० वार्तिकाल० २।६ | पृ० ३१ । (२) प्रतिभासाद्वैतस्य । (३) प्रतिभासाद्वैते । (४) अनुमा-अनुमानं न स्यात् । (५) नित्यै ब्रह्मरूपपुरुषोपलब्ध्या । (६) क्षणिकादिसिद्धिः । ( ७ ) “अज्ञातार्थप्रकाशो वा अथवेदं प्रमाणलक्षणम्, प्रकाश्यतेऽनेनेति प्रकाशः, अज्ञातस्यार्थस्य प्रकाशकं ज्ञानं प्रमाणम् । अथवा अर्थशब्देन परमार्थ उच्यते । अज्ञातार्थप्रकाश इति परमार्थप्रकाश इत्यर्थः । परमार्थश्राद्वैतरूपता, तत्प्रकाशनमेव प्रमाणम् । तथा च प्रत्ययादिस्वरूपस्य स्वतो गतिरिति, उक्तञ्च प्रामाण्यं व्यवहारेणेति । तत्र पारमार्थिकप्रमाणलक्षणमेतत् पूर्वं तु सांव्यवहारिकस्य । " - प्र० वार्तिकाल० पृ० ३० । (८) नीलादिग्राहकम् । (९) दत्तोत्तरस्य । (१०) तुलना - " अत एवोक्तम्- प्रमाणस्य साक्षात्फलं सिद्धिः स्वार्थविनिश्चयः । " - प्रमाणनि० पृ० २ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org