________________
११२]
प्रमाणस्य स्वरूपम् ट्योरिति चेत् ; अत्राह-निर्णीतिर्यदि' इत्यादि मध्यक्षणस्य सभेदस्य ग्रहणात् तत्र निर्णीतिः सविकल्पकं दर्शनं यदि प्रमाणम् ; अत्र दूषणम्-अविकल्पमखिलम् अभ्यासजमपि न केवलमन्यत् स्याद् भवेत् अप्रमाणं खतो बौद्धस्य अक्रमेणैव (णेव) क्रमेणापि सभेदभावं. भवाद् (अभेदसंभवात) इति भावः । ननु च स्वरूपे पररूपे वा अक्रमेण क्रमेण[वा] स्वलक्षणदर्शनमविकल्पकम् , तत्पृष्ठभाविनी तु विकल्पबुद्धिः अनुमानादिव्यवहारमारव (रच) यति, तद्व-५ शात् तत् प्रमाणमिति चेत् ; अत्राह-तस्याश्चेद् इत्यादि । गतार्थमेतत् ।
अथचेत्कमिदम् (अथवेत्थमिदम्) अवतार्य एवं व्याख्येयम्-अप्रमाणव्यवच्छेदत्वं प्रमाणलक्षणमुच्यते । न च व्यवच्छेद्यमप्रमाणमस्ति । द्विचन्द्रादिदर्शनमस्तीति चेत् ; कुतस्तदप्रमाणम् ? बाध्यमानत्वात् ; न ; सर्वथा तैदयोगादिति, जाग्रदर्शनवद् द्विचन्द्रादिदर्शनमपि प्रणं ( प्रमाणं ) न वा किञ्चिदिति व्यवच्छेद्याभावात् 'वक्ष्ये सिद्धिविनिश्चयम्' इत्यन-[८क] १० र्थकमिति चेत् ; अत्राह-सिद्धिश्चेद् इत्यादि । सिद्धिः प्रमाणं चेद् यदि उपलब्धिमात्रम् बुद्धिसामान्यम् । कथं तत् प्रमाणम् ? इत्याह-अविसंवादैकहेतोः इत्यादि । गतार्थमेतदपि । इदमत्र तात्पर्यम्-'अविसंवादिनी बुद्धिः प्रमाणं नान्या' इति विभागमनपेक्ष्य तन्मात्रं यदि प्रमाणमिति ; अत्र दूषणमाह-क्षणिकादिसिद्धिः इत्यादि । क्षणिक आदिर्यस्य पराभ्युपगततत्त्वस्य तत्तथोक्तम् तस्य सिद्धिः तत्सम्बन्धनीयं प्रमाणमनुमानं (मा न) स्यात् । अय- १५ मभिप्रायः-यदि ज्ञानमात्रं प्रमाणं तर्हि नीलादाविव स्थूलादावपि प्रत्यभिज्ञानादि प्रमाणमिति तेन बाधितविषयत्वात् शब्दादौ क्षणिकाद्यनुमा न प्रमाणम् । न च एकत्र "परस्य अनेकप्रमाणम् अर्थवत् , अंनभ्युपगमात् । अथ बाध्यमानत्वान्न स्थूलादिज्ञानं प्रमाणम् ; तर्हि अबाधितं ज्ञानं प्रमाणयितव्यम् , न सर्वम् । तथा चेत् ; अत्राह-'निर्णातिर्यदि' इत्यादि । अबाधिता प्रतीतिः अविसंवादैकहेतुः निर्णीतिर्यदि प्रमाणम् निर्विकल्पं विकल्पात् निर्णीतिभेदा-२० निष्क्रान्त (न्त) संवेदनमात्रम् अखिलं निरवशेष न स्यात् प्रमाणं स्वतो बौद्धस्य किन्तु संवेदनविशेषः स्यादिति प्रतिज्ञाहानिः तस्य ।
अत्राह वैशेषिकादि:-न निर्णीतिः, अपि तु तद्धेतुत्वात् सन्निकर्षादिः प्रमाणमिति चेत् ; अत्राह उत्तरम्-तस्या निर्णीतेश्चेत् जननाद अन्यत् प्रमाणम् अत एव अस्तु स्वतः स्वयमेव निर्णयः-यस्य हि भावात् परनिरपेक्षा सिद्धिः तदेव प्रमाणं युक्तम् । निर्णीतिभावाञ्च २५ "तथा तत्सिद्धिः, तदभावे अन्यभावेऽपि "तदभावात् , अन्यथा[८ख] चक्षुषो रूपवद् रसादिसिद्धिरपि", "संयुक्तसमवेतसम्बन्धस्याविशेषादिति मन्यते ।
यदि वा, य एवमाह प्रमाभङ्गवादी प्रज्ञा क र गुप्तं (प्तः)-*"न प्रतिभासाद्वैतात् परं तत्त्व
(१) निर्विकल्पकम् । (२) बाध्यमानत्वायोगात् । (३) बुद्धिमात्रम् । (१)अनुमा-अनुमान प्रमाणं न स्यादित्यर्थः। (५) बौद्धस्य । (६) एकस्मिन् प्रमेये अनेकप्रमाणानां प्रवृत्त्यनभ्युपगमात् । (७) प्रमाणम् । (6) प्रमाणम् । (९) निर्णीतिजनकत्वात् । “उपलब्धिहेतुश्च प्रमाणम्"-न्यायभा० २।१११।(१०) सन्निकर्षादि । (११)परनिरपेक्षा । (१२) निर्णीत्यभावे । (१३) सन्निकर्षादिसद्भावेऽपि । (१४) सिद्ध्यभावात् । (१५) स्यादिति सम्बन्धः। (१६) चक्षुःसंयुक्ते घटे रसस्यापि समवायात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org