________________
सिद्धिविनिश्चयटीकायाम्
[१ प्रत्यक्षसिद्धिः तत्र अनुमान प्रमाणं न दर्शनं तथा तेनं अनिर्णीतस्य नीलादेनिर्णयात्तत्रे विकल्प एव तत्पृष्ठभावी प्रमाणं स्यात् न दर्शनमिति सौगतानाम् उपलब्धिमानं चेत् प्रमाणम् क्षणिकाद्यनुमानं न स्यात्
अर्थनिर्णीति[:] निर्विकल्पमखिलं न भवे[७क]दितीतः सरदतः (सर इतः) पाश इति प्राप्तम् । . ननु *"यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति नीलादिक्षणिकादिविकल्पानुमान५ जननात् प्रमाणमविकल्पकमिति धैं मो त्त र- पं ज्ञा क र गुप्तौ; तत्राह-तस्याश्चेत् इत्यादि । तस्याः विकल्पानुमानयोनिर्णीतेश्चेत् यदि जननात् प्रमाणम् 'अविकल्पकम्' इति सम्बन्धः । अत एव यत एव निर्णीतिजननादविकल्पमपि प्रमाणं न स्वतः अतोऽस्मादेव कारणाद् अस्तु भवतु स्वत आत्ममैव निर्णयो विकल्पः अनुमानाख्यः, यद्बलाद् दर्शनस्य प्रमाणता वरं तस्यैव सास्तु इति भावः ।
अथवा "अनभ्यासे दृश्यरूपलिङ्गक्षम (जम)नुमानं प्राप्ये रूपादौ" अभ्यासे निर्विकल्पकमध्यक्षम्, न चान्या दशाऽस्ति यस्यां विकल्पः प्रमाणं स्यात् , स एव चेष्यते जैनैः, तत्कथमुच्यते-*"वक्ष्ये सिद्धिविनिश्चयम्" [सिद्धिवि० १११] अस्यामाशङ्कायामाह-सिद्धिश्वेद इत्यादि । अस्यायमर्थः-सिद्धिः प्रमाणं चेत् यदि उपलब्धिमात्रं पूर्वापराकारशून्यं
मध्यदर्शनमात्रम् उपलब्धिमात्रम् । अत्र दूषणमाह-क्षणिकादिसिद्धिः इत्यादि । क्षणिकग्रहणं १५ साधनादभिन्नसाध्यलक्षणम्, आदिशब्देन अग्न्यादीनां परिग्रहः, तेषां सिद्धिःप्रमाणम् अनुमा
नं (न)स्यात्-नोत्पद्यत वयम् आत्मनैव गृहीतग्राहित्वेन । एतदुक्तं भवति-*"यथा दृश्यप्राप्ययोर्भेदः तथा दृश्यस्य दर्शनस्य च प्रत्यवयवं भेदात् न कस्यचिद्दर्शनम्" इत्युक्त प्र मा ण सं ग्र हा ल का रे । तथा पक्षाद्यभावान्नानुमानमिति नाभ्यास्यो (सो) यतः तत्र प्रत्यक्षं
प्रमाणम्, अनुमानस्यैव अभ्यासोपगमात् । संवृत्या" स्यादिति चेत् [ख] अत्राह-सर्वथा पर२० मार्थप्रकारेणेव संवृतिप्रकारेणापि न स्यात् कस्यचिदत्र (दनु)भवस्याभावे संवृतिविकल्पाभावात्
"तत्पूर्वकत्वादस्य । कदामानं (कदाऽनुमा न) स्यात् ? इत्यत्राह-विना निर्णीतेः स्थूलैकसादृश्यदर्शनं निर्णीतिः तामन्तरेण । कथंभूतायाः ? इत्यत्राह-अविसंवादैकहेतोः इति । पक्षहेतुदृष्टान्तानां याथात्म्येन प्रतिपत्तिरविसंवादः, तस्य एकहेतोः पक्षादिप्रतिपत्तेर्विकल्पात्मकत्वादिति भावः । भवतु दृश्यस्य सभेदस्य ग्रहणात् तत्र सविकल्पकं दर्शनं प्रमाणं न पूर्वापरको
(१) दर्शनेन । (२) नीलादौ । (३) यस्मिन् नीलाद्यंशे । (४) विकल्पबुद्धिम् । (५) निर्विकल्पस्य । उद्धृतोऽयम्-प्रमेयक. पृ. ३५। सन्मति.टी. पृ० ५१२। न्यायवि. वि. प्र. पृ० ५२३ । शास्त्रवा० टी० पृ. १५१। (६) "तस्मादध्यवसायं कुर्वदेव प्रत्यक्षं प्रमाणं भवति ।"-न्यायबि. टी. १।२१। (७) "प्रत्यक्षं सन्निहितरूपादिमात्रग्राहि विकल्पान्तरेणैकत्वाध्यवसाये सति प्रवर्तकम्"-प्र. वार्तिकाल. पृ०२१६ । तुलना-"अविकल्पमपि ज्ञान विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गतदद्वारेण भव. त्यतः॥"-तत्वसं० श्लो. १३०६ । (८) प्रमाणम् । (९) विकल्पस्यैव । (१०) “यत्र भाविगतिस्तत्रानुमानं मानमिष्यते । वर्तमानेऽतिमात्रेण वृत्तावध्यक्षमानता ॥"-प्र. वार्तिकाल• पृ. २१८ । (११) प्रमाणम् । (१२) अभ्यासे । (१३) कल्पनया। "प्रमाणमन्तरेण प्रतीत्यभिमानमात्रं संवृतिः"-प्र०वार्तिकाल. ३१५। "असद्पपदार्थाल म्बना हि संवृतिः तत्वसंवरणात् ।"-प्र. वार्तिकाल पृ० २०३ । (१४) अनुभवपूर्वकत्वात् । (१५) संवृतिविकल्पस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org