________________
१२]
प्रमाणस्य स्वरूपम्
इत्यभिधानात् । अथैतन्नेष्यते [६] तर्हि तद्वत् सर्वचेतसाम् आत्मसंवेदनं सविकल्पकं भवेत् । तत्र दूषणं वक्ष्यते- 'निर्णीतिर्यदि ' इत्यादि ।
ननु च अभ्यासदशायां भाविनि प्रवर्तकं प्रत्यक्षमविकल्पकमपि समारोपव्यवच्छेदकम्, अतोऽनैकान्तिको हेतुरिति चेत्; न; तदा नीलादौ स्वयमेव तदभावात् । क्षणक्षयादौ तु सोऽस्त्येव कथमन्यथा प्रत्यक्षमविसंवादि तदा स्यादिति यत्किञ्चिदेतत् ।
ननु भवतु स्वरूपे तंन्निर्विकल्पकम् अर्थे तु विकल्पकम्, अतो भावा (भागा ) सिद्धो हेतुरिति चेत्; किं पुनस्तस्य तात्त्विकं रूपद्वयमस्ति ? तथा चेत्; तद्वत् क्रमेणापि एकस्य रूपद्वयसंभवात् न क्षणिकज्ञानं (ने) नीत्वा (ला) दिज्ञानवत् समारोप इति कथं तद्वयवच्छेदकरणात् तत्प्रमाणम् ? अथ कल्पितं तत्र तस्य सविकल्पकं रूपम् ; सुस्थितं तर्हि भागासिद्धत्वम्, कृतकत्वस्याप्येवं भागासिद्धत्वप्रसङ्गात्, वेदे कल्पनया अकृतकत्वस्य भावात् शब्दमात्रस्य अनि- १० त्यत्वसाधने । कथं वा तंतू कल्पितं समारोपं व्यवच्छिन्द्यात् ? नहि माणवके अग्नित्वं कल्पितं शीतं व्यवच्छिनत्ति । तद्वचवच्छेदोऽपि तादृश एवेति चेत्; ततः तत्प्रमाणत्वमपि तादृशं प्रसक्तमिति कुतः परर्म्यं तत्त्वव्यवस्था ? प्रतिभासाद्वैतस्य तत एव [ सिद्धिरिति ] चेत्; तिष्ठतु तावदेतत् । ततोऽनुमानगतसविकल्पकस्वभावात् तंद्व यवच्छेदम् इत्यता ( इच्छता) स तात्त्विको भ्यु - पगन्तव्य इति स एव दोषः समारोपाभावलक्षणः । वक्ष्यते च - * “प्रतिभासैक्यनियमे " १५ [ सिद्धिवि० १।११] इत्यादि ।
भवतु वा अनुमानं कीदृशमपि [६] तथापि नातः समारोपनाशः ; " तस्याऽहेतुत्वोपगमात् । अथ अनुमानसन्निधानात् पूर्वसमारोपक्षणस्य उत्तरसमारोपोत्पादने असमर्थस्य भावात् पूर्वस्य स्वयमेव " तत्क्षणस्य नाशाद् " उत्तरस्य कारणाभावेन अनुत्पादात् एवमुच्यते - 'अनुमानेन समारोपो नाशितः' इति प्रदीपेनेव तमः तर्हि कुतश्चिदेशसन्निधानात् यथार्थसु (शु) क्त्यादि - २० विकल्पे सति पूर्वपूर्वरजतादिसमारोपक्षणानाम् उत्तरोत्तरतत्क्षणोत्पादने असमर्थानामुदद्यात् तथा प्रमाणं न स्यात् यतो द्वे एव प्रमाणे स्याताम् ? तदुक्तम्*“समारोप व्यवच्छेदान्नन्वस्त्यधिगतेरपि ।
तत्पृष्ठभाविनो युक्ता विकल्पस्य प्रमाणता ||" इति ।
तन्न समारोपव्यवच्छेदादनुमानं प्रमाणम् । दर्शनानिर्णीतार्थनिर्णयात् स्यादिति चेत्; २५ अत्राह-निर्णोतिर्यदि इत्यादि । अस्यायमर्थः - अनुमान (नातू) दर्शनानिर्णीतक्षणिकादिनिर्णीतेर्यतस्ततो यदि चेत् क्षणिकादिसिद्धिरिति सम्बन्धः । अत्र दूषणमाह - निर्विकल्पम् इत्यादि । निर्विकल्पम् अविकल्पकं दर्शनमखिलं चतुर्विधमपि न स्यात् न भवेत् प्रमाणम् स्वतो बौद्धस्य । अत्रायमभिप्रायः - यथा दत्तेना ( दर्शनेना) निर्णीतस्य क्षणिकादिनि (देर्नि) र्णयात्
(१) समारोपव्यवच्छेदाभावात् (२) अभ्यासावस्था । ( ३ ) अनुमानम् । ( ४ ) आत्मादेः । ( ५ ) नित्यत्वादिसमारोपः । (६) अर्थरूपे अनुमानस्य । (७) अनुमानम् । (८) बौद्धस्य । ( ९ ) समारोपन्यवच्छेदम् । (१०) नाशस्य निर्हेतुकत्व स्वीकरात् । ( ११ ) समारोपक्षणस्य । ( १२ ) समारोपस्य । (१३) शुक्त्यादि - विकल्पः । (१४) इन्द्रिय मानस स्वसंवेदन योगि प्रत्यक्षलक्षणम् ।
२
Jain Education International
For Personal & Private Use Only
•
५
www.jainelibrary.org