________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः चक्षुरिव रूपप्रकाशनात् तैजसः स्यात् । प्रत्यक्षादिबाधनमन्यत्रापि । यदि पुनः केवलोऽपि प्रदीपादिः समुपलभ्यते इति न घटादिः तज्ज्ञानहेतुः; प्रदीपादिरपि घटादिज्ञानस्य हेतुर्न स्यात् तस्यापि केवलस्य उपलम्भ (म्भात्) इत्युक्तम् । यथैव च केषाञ्चित् प्रदीपाद्यालोकमन्तरेण न घटादिरूपज्ञानं तथा केषाश्चिन्नक्तञ्चराणाम् अन्धकारमन्तरेणापि न तज्ज्ञानमिति तदपि तद्धेतुरिति *"तेजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्।" [प्र०व्यो०पृ० २५६] इत्यस्य अनेन व्यभिचारः । अथ [न] अन्धकारः तद्धतुः ; आलोकोऽपि न भवेदिति 'प्रदीपवत्' इत्यस्य निदर्शनस्य साधनशून्यता । तन्न प्रदीपादिना व्यभिचारः । ननु न वेदनत्वेन प्रामाण्यं व्याप्तं येन तदभावे न भवेत् , अपि तु यथार्थज्ञान[जन]कत्वेन । तच्च प्रदीपादिपरिहारेण सन्निकर्षादावस्तीति स प्रमाणमस्तु इति चेत् ; न; सन्निकर्षस्य ज्ञान प्रति हेतुत्वस्य निषेत्स्यमानत्वात् । केवलमिन्द्रियमवशिष्यते । तदपि न प्रमाणम् ; तद्धतुत्वेऽपि विचेतनत्वात् घटादिवदिति चर्चितं प्र मा ण सं प्र ह भा प्ये । ततः 'प्रमाणे फलोपचारः ततो भिन्नप्रमाणनिषे. धव्य (धार्थः)' इति सूक्तम् । - ततः सिद्धिः प्रमाणम् । चेत् यदि । किं तत् ? इत्याह-उपलब्धि[५ख]मात्रम्
इति । उपलभ्यते अनया वस्तुतत्त्वमिति उपलब्धिः अर्थादुत्पन्ना तदाकारा च बुद्धिः सैव तन्मा१५ त्रम् । कथं तत्प्रमाणमिति ? अत्राह-अविसंवादैकहेतोः इत्यादि। अविसंवादः अर्थतथाभावः
तस्य एकः प्रधानभूतः एकसंख्यायुक्तो वा हेतुः कारणं या निर्णीतिः यथार्थो विकल्पः तस्या विना तामन्तरेण । एतदुक्तं भवति-तदकिश्चित्करं संशयकरं विपर्ययकरं यथार्थनिर्णयकरं चेति चत्वारः पक्षाः । तत्र उत्तरपक्षे 'तस्याश्चेजननात्' इत्यादिदूषणमभिधास्यते इति । अन्यत्र पक्ष
त्रये यदि प्रमाणमिति । तत्र दूषणमाह-क्षणिकादिसिद्धिः इत्यादि । क्षणिक इति भावप्रधा२० नो निर्देशः । ततः क्षणिकत्वम् आदिर्यस्य ज्ञानत्वादेः साधनादभिन्नस्य तत्तथोक्तम् , तस्य सिद्धिः
प्रमाणम् अनुमा अनुमानं न स्यात् तत्साधकं न भवेत् , प्रत्यक्षमेव स्यात् नीलादिवत्तस्यापिं तत एव प्रतीतेः सर्वथा सारूप्यात् । कस्य ? इत्यत्राह-स्वयम् आत्मनो बौद्धस्य । "तत्र समारोपव्यवच्छेदकरणात् स्यादिति चेत् ; अत्राह-[सर्वथा] सर्वेण क्षणिकादिसाधनप्रकारेण वा अन्येनापि समारोपव्यवच्छेदप्रकारेणापि 'न स्यात्' इति सम्बन्धः । कुतः ? "तदव्यवच्छेदकत्वात् । तथाहि-न समारोपव्यवच्छेदकृद् अनुमानम् अविकल्पकत्वात् प्रत्यक्षवत् । अविकल्पकत्वं च *""सर्वचित्त चैत्तानाम् आत्मसंवेद [न] प्रत्यक्षमविकल्पकम्" न्यायबि० १।१०]
(१) प्रदीपादिज्ञानहेतुः । (२) घटस्यापि । (३) तमोऽपि । (४) "तच्च तैजसं रूपादिषु मध्ये नियभेन रूपव्यञ्जकत्वात् । यद्यत् रूपादिषु मध्ये नियमेन रूपव्यञ्जकं तत्तैजसं यथा प्रदीपम् , तथा च रूपादिषु मध्ये नियमेन रूपव्यञ्जकं चक्षुः तस्मात्तैजसमिति।"-प्रश० व्यो० पृ० २५६ । “तैजसत्वं तु तस्य रूपादिषु मध्ये नियमेन रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवत् ।" -प्रश० कन्द० पृ. ४० । प्रश. किरणा० पृ० ७३ । वैशे० उप० पृ० १२८ । (५) ज्ञानत्वेन । (६) तेषामिन्द्रियाणां ज्ञानहेतुत्वेऽपि । (७) विगतचेतनत्वात्, अचेतनत्वादित्यर्थः । (4) क्षणिकत्वस्यापि । (९) प्रत्यक्षादेव। (१०) नीलादौ । (११) समारोपाऽव्यवच्छेदकत्वात् । (१२) “चित्तमर्थमात्रग्राहि, चैत्ता विशेषावस्थाग्राहिणः सुखादयः....."नास्ति सा काचित् चित्तावस्था यस्यामात्मनः संवेदनं प्रत्यक्षं न स्यात् ।"-न्यायबि. टी. पृ. ६४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org