________________
१२]
प्रमाणस्य स्वरूपम्
स्वपरग्रहणलक्षणाद् अन्यदेव अचेतनं सन्निकर्षादि प्रमाणम्' इति, तन्निषेधार्थः । तथाहि -नं प्रमाणं सन्निकर्षादि अचेतनत्वात् घटादिवत् । न प्रदी [ ४ख ] पादिना व्यभिचारः; तस्यापि पक्षीकरणात् । अर्थ अव्यपदेश्याव्यभिचारिव्यवसायात्मकघटादिज्ञानहेतुत्वात् प्रमाणं प्रदीपादि : ; तन्न युक्तम् ; प्रामाण्यवत् प्रदीपादीनां तत ( तज्) ज्ञानहेतुत्वस्यापि परं प्रत्यसिद्धेः । नैं घटादिज्ञानस्य हेतुः प्रदीपादिः, तत्परिच्छेद्यत्वात्, यद् यस्य परिच्छेद्यं न तत् तस्य जनकं यथा ईश्वरज्ञानस्य परिच्छेद्यः ५ सदसद्वर्गो न तज्जनकः, घटज्ञानपरिच्छेद्यश्च प्रदीपादिः, घटेन सहैवैकस्मिन् विज्ञाने" तस्यै प्रतिभासनात् । अथ ईश्वरज्ञानं चेन्नँ विषयेण जन्यते, अन्यथा तेन तत्परिच्छेदायोगात ; न तर्हि तत्सहभाविनां तेर्न ̈ ग्रहणम् अकारणत्वात्", तथा च "सर्वः सदसद्वर्गः कस्यचिद् एकप्रत्यक्षविषयः अनेकत्वाद् अङ्गुलिसमूहवत्" इति व्याहन्यते । 'अजनकानामपि ' ' तेषां तेन * ग्रहणं नान्येषाम्” इति किंकृतो विभागः ? ननु च प्रदीपादेर्घटज्ञानं प्रत्यकारणत्वे " तदभावेऽपि तत् स्यादिति चेत् ; दृष्टत्वाददोषः । दृष्टं खलु केषाञ्चिद्राति (प्राणिविशेषाणाम् " अञ्जनादिसंस्कृतलोचनानां वा " तदभावेऽपि रूपज्ञानम् । न च यदभावेऽपिं यद् भवति तत्तस्य कार्यम् अतिप्रसङ्गात् । निराकरिष्यते च चक्षुषः तैजसत्वम् । यदि च प्रदीपाद्यभावे न रूपज्ञानम् ; कथं तर्हि तमःपटलावलोकनम्” ? "ज्ञानानुत्पत्तिरेव तमो [ना] न्यदिति चेत्; आस्तां तावदेतत् ।
१९
१०
स्मान्मतम् - यदा दीपाद्यभावेऽपि रूपज्ञानं तदा अस्य अन्यत् कारणमस्तु यदा तु १५ दीपादिभावे तदा तदेव, अन्यथा सत्यस्वप्ने चक्षुषोऽभावेऽपि "तज्ज्ञानं, दृष्टमिति सर्वदा तद [५] कारणम् अतीन्द्रिय (इति, *" इन्द्रियें ) मनसी तत्कारणम्" [ लघी ० स्व० • श्लो० ५४] * “अतीन्द्रियप्रत्यक्षम् " [लघी० स्व० श्लो० ६१] इति च विरुध्यते इति ; तदपि न सारम् ; यदि खलु घटादिना सह दृश्यमानोऽपि दीपादिः तज्ज्ञानस्य हेतु:, तर्हि घटादिरपि प्रदीपादिज्ञानहेतुरिति (१) "सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नमर्थान्तरवत् " - लघी ० स्व ० १ । ३ । “ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्निकर्षादि । " - प्र० वा० मनोरथ० पृ० ३ । (२) " तस्मात् कर्तृकर्मव्यतिरिक्तमव्यभिचारादिविशेषणकार्थं प्रमाजनकं कारकं करणमुच्यते, तदेव च तृतीयया व्यपदिशन्ति दीपेन पश्यामि चक्षुषा निरीक्षे लिङ्गेन बुध्ये शब्देन जानामि मनसा निश्चिनोमि इति । " - न्यायम० पृ० १४ । (३) जैनं प्रति । (४) "आलोकोऽपि न कारणं परिच्छेद्यत्वादर्थवत् । " - लघी० स्व० श्लो० ५५ । परीक्षामु० २।६ । प्रमाणमी० १।१।२५ । ( ५ ) प्रदीपितोऽयं घट इत्याकारकविज्ञाने । (६) प्रदीपस्य । (७) 'चेन्न' इति पदं व्यर्थमत्र | ( ८ ) ईश्वरज्ञानेन । (९) विषयपरिच्छेदायोगात् । (१०) ईश्वरज्ञानेन । ( ११ ) समसमयवर्तिनां कार्यकारणभावाभावात् । (१२) तुलना - सदसद्वर्गः कस्यचिदेकज्ञानालम्बनोऽनेकत्वात् पञ्चाङ्गुलवत् इत्यत्र" - " - प्रमेयक० पृ० १४२ । सन्मति० टी० पृ० ४७७ । (१३) सहभाविनामपि । (१४) ईश्वरज्ञानेन । (१५) खरविषाणादीनाम् । (१६) प्रदीपा भावेऽपि । ( १७ ) मार्जारादीनाम् । (१८) प्रदीपाद्यभावेऽपि । ( १९ ) " नहि तमः चक्षुर्ज्ञानप्रतिषेधकं तमोविज्ञानाभावप्रङ्गात् । " - लघी० स्व० श्लो० ५६ । (२०) “तमसो निष्पत्यनभिक्लृप्तेः । रूपवत्वेन हि तमो द्रव्यं स्यात्, तच्चानेकद्रव्यारब्धं सच्चाक्षुषं भवेत् । न च द्रव्याणि सन्ति, सन्ति चेद्दिवाप्यारभेरन् अन्धानामिव नीलिमाभिमानः नभस एवेत्युक्तम् ।" - प्रक० प० पृ० १४३ । तत्ररह० पृ० २१ । “आलोकज्ञानाभावस्तम इति प्रभाकराः परिभावयन्ति ।” प्रश० सेतु० पृ० ४२ | न्यायकुमु० पृ० ६६३ । (२१) रूपज्ञानम् । (२२) चक्षुः । (२३) “ ततः सुभाषितम् - इन्द्रियमनसी कारणं विज्ञानस्य अर्थो विषयः । " - लघी० स्व० श्लो० ५४ । ( २४ ) “ अतीन्द्रियप्रत्यक्षं पुनः व्यवसायात्मकं स्फुटम वितथमतीन्द्रियमव्यवधानं लोकोत्तरमात्मार्थं विषयम् । " - लघी० स्व० श्लो० ६१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org