________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
अर्थसन्देहात् प्रेक्षापूर्वकारिणोऽपि तद्वाक्यात् प्रवर्त्तन्ते" इत्येके' । *" सन्देहात् प्रवृत्तौ किमन्यत्रापि प्रमाणान्वेषणेन " इति प्रज्ञा कर गुप्तः । * " तद्वाक्याद् अभिधेयादौ श्रद्धाकुतूहलोत्पादः, ततः प्रवृत्तिः" इति केचित् स्वयूथ्याः । तान् प्रति अपरे प्राहु:- यदि न तद्वचनं प्रमाणम् ; कथं ततः श्रद्धाद्युत्पादेऽपि प्रेक्षावतां प्रवृत्तिः ? इतरथा यतः कुतश्चित् स्यात् । ५ प्रमाणं चेत्; न तत् प्रत्यक्षम् वचनत्वात् । नाप्यनुमानम् ; वचनस्य अर्थाप्रतिबन्धात् । अत एव नाऽऽगमोऽपि । तत्र ततः प्रवृत्तिरिति; तत्र ( तन्न ) प्रत्यक्षवत् शब्दस्यापि प्रमाणत्वोपपत्तेर्वक्ष्यमाणत्वाददोषः ।
"
अथवा, शौस्त्रार्थस्य संग्रहवाक्यमेतत्, अस्मान्निबन्धस्थानादत्वा (स्थानादर्था) आदाय व्याख्यायन्त इति ।
१०
१५
तत्र स्वरूपनिश्चयं प्रमाणस्य तावत् दर्शयन्नाह - 'सिद्धिश्चेत्' इत्यादि । [ सिद्धिश्चेदुपलब्धिमात्रमविसंवादैकहेतोर्विना, निर्णीतेः क्षणिकादिसिद्धिरनुमा न स्यात् स्वयं सर्वथा । निर्णीतिर्यदि निर्विकल्पमखिलं न स्यात् प्रमाणं स्वतः, तस्याश्वेज्जननात् प्रमाणमत एवास्तु खतो निर्णयः ॥ २ ॥ ]
सिद्धिः प्रमाणं तत्र फलोपचारात् कथञ्चित्तादात्म्यनिबन्धनस्व (श्च) प्रमाणफलयोरुपचारः । तयोस्तर्हि कथञ्चित्तन्वित् (कथञ्चित्तदिति) कदाचित् प्रमाणेन फलं कदाचित् फलेन वाप्रमाणं वायदिश्यते ( चापदिश्यते ) यथा मृद्घटयोः तथातत्त्वे मृदियं घटः घट (घटो) वा सृदिति । किमर्थः सँ इति चेत् ? अन्यमतएवप्रति (मतप्रति षेधार्थः । अन्येषां हि दर्शनं 'फलात्
(१) धर्मोत्तरादयः । " अश्रुते प्रकरणे कथितान्यपि न निश्चीयन्ते । उक्तेषु त्वप्रमाण केष्वप्यभिधेयादिषु संशय उत्पद्यते । संशयाच्च प्रवर्तन्ते । अर्थसंशयोऽपि हि प्रवृत्त्यङ्गं प्रेक्षावताम् ।" - न्यायवि० टी० पृ० २ । "आदिवाक्यादेव श्रोतुः शास्त्रप्रयोजनपरिज्ञानमर्थसंशयाच्च श्रवणे प्रवृत्तिः ।" -न्यायम० पृ० ६ । (२) "उपेयार्थितया सर्वः प्रवर्तननिवर्तने । करोति पुरुषस्तस्य सन्देहश्चेत् कथं प्रमा ॥” तत उपायनिश्चये सति कृषीवलादिवत् प्रामाणिकाः प्रवर्त्तन्ताम् ।" - प्र० वार्तिकाल० पृ० २६ । (३) तुलना - " श्रद्धा कुतूहलोत्पादनार्थं तदित्येके ; तदप्यनेनैव निरस्तम् ; तस्य प्रमाणत्वाप्रमाणत्वपक्षयोस्तदुत्पादकत्वाऽयोगात् ।” –त० श्लो० पृ० ४। (४) तुलना - "यच्च श्रोतुः प्रवृत्यङ्गं श्रद्धाद्युत्पादनं बुधैः । व्यावर्णितमसन्दिग्धमादिवाक्यप्रयोजनम् ॥ तदप्यासोक्तितश्चेत्स्यात् वाक्यमेतद् वृथा भवेत् । आप्ताज्ञयैव श्रद्धादेः संभवादादिवाक्यवत् ॥ अन्यथा ह्यादिवाक्येऽपि श्रद्धाद्युत्पत्तिकारणम् । चाक्यान्तरं प्रतीक्ष्यं स्यादनवस्थानदुःखदम् ॥ अनाप्तवचनत्वेऽस्य बालोन्मत्तादिवाक्यवत् । श्रद्धा कुतूहलोत्पत्तिरतः संभाव्यते कथम् ॥” - न्यायवि० वि० प्र० पृ० ५५ । (५) तुलना - " स चायं शास्त्रार्थसंग्रहोऽनूद्यते नापूर्वी विधीयते इति । ” न्यायभा० ४।२।१ । "अत एव शास्त्रार्थं प्रतिज्ञा प्रतिपादनपरः आदिवाक्योपन्यासः इत्याद्यपि प्रतिक्षिप्तम् " - सन्मति ० टी० पृ० १७२ । स्या० रत्ना० पृ० १९ । ( ६ ) " अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्ते । " - हेतुबि० टीकालो० पृ० २४३ । (७) कथञ्चित्तादात्म्ये । (८) उपचारः । (९) नैयायिकादीनाम् । “अक्षस्य अक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् । वृत्तिस्तु सन्निकर्षो ज्ञानं वा । यदा सन्निकर्षः तदा ज्ञानं प्रमितिः यदा ज्ञानं तदा हानोपादानबुद्धयः फलम् । " - न्यायभा० १|१|३ | “ इन्द्रियार्थसन्निकर्षस्य करणभावान्नाऽकरणा प्रमाणोत्पत्तिः ।" - न्यायवा० पृ० ६ ।
Jain Education International
For Personal & Private Use Only
,
www.jainelibrary.org