________________
११]
मङ्गलश्लोकः ___ प्रमाणाञ्च नयस्य भेदैकान्ते प्रमाण सं ग्र हा दौ' *"प्रमाणे इति संग्रहः" [प्रमाणसं० श्लो० २] इत्यभिधाय पुनर्णयादिप्रणयनमयुक्तं तेनासंग्रहात् । ततो यथा अन्य प्रमाणात् नयादिपरिग्रहः तथा अत्रापि, इति सर्व सुस्थम् ।
ननु 'सिद्धिः अधिगतिः प्रमाणफलम् , तस्या विनिश्चयं निर्णयात्मकत्वं वक्ष्ये' इति व्याख्याने को दोषः येनेदं नाश्रितमिति चेत् ? सर्वार्थासंग्रहः । एवं हि फलविप्रतिपत्तिनिरास ५ एव संगृहीतो न सर्वान् प्रतिवादिनः प्रति स्वरूपादिविप्रतिपत्तिनिरासः, ततः पूर्वमेव व्याख्यानम्।
अथ किमर्थमिदमुच्यते-'वक्ष्ये सिद्धिविनिश्चयम्' इति ? सम्बन्धाभिधेयप्रयोजनप्रतिपादनार्थम् । तथाहि-सिद्धिपदेन शास्त्रस्य अभिधेयम् 'प्रमाणम्' उक्तम् निरभिधेयाऽशक्याननुष्ठेयाशङ्कानिवारणार्थम् । 'विनिश्चयम्' इत्यनेन प्रयोजनम् , निष्प्रयोजनत्वारेकाप्रतिषेधार्थम् । शास्त्रस्य अभिधेयेन वाच्यवाचकलक्षणः प्रयोजनेन च सह साध्यसाधनलक्षणः १० सम्बन्धोऽपि अर्थतोऽनेनोक्तो वेदितव्यः । तथावदसदादिमादि (तथा च दशदाडिमादि)वायंसमताचोद्यं निरस्तम् । ननु शास्त्रवद् अभिधेयस्यापि प्रयोजनं पृथगेव वक्तव्यम् काकदन्तवदप्रयोजनाशङ्कानिषेधार्थ यथा अन्यत्रोक्तम्-*"प्रमाणाधीनत्वात् प्रमेयव्यवस्थायाः तद्व्युत्पादनार्थमिदमुच्यते" इति चेत् ; न;सिद्धिशब्देनैव तदप्युक्तम् । यस्मादयं [४क]प्रमाणा (ण) फलवाचिनं सिद्धिशब्दमुपचारात् प्रवर्तयति तस्मादुक्तमेव फलम् , मुख्याहते उपचारा[भावा] दिति । १५
किमर्थमादौ अभिधेयादिकमुच्यते इति चेत् ? श्रोतृप्रवृत्त्यर्थम् । *"कृषीवलादिवत्
(१) आदिपदेन लघीयस्त्रयन्यायविनिश्चयौ ग्राह्यौ । तथाहि-"प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः। परोक्षं शेषविज्ञानं प्रमाणे इति संग्रहः ॥"-लघी० श्लो०३। न्यायवि० श्लो० ४६९। (२) प्रमाणेन । (३) प्रमाणसंग्रहादौ । (४) कैश्चित्कृतं व्याख्यानम् । (५) युक्तम् । (६) "सिद्धार्थ सिद्धसम्बन्धं श्रोता श्रोतुं प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ यावत्प्रयोजनेनास्य सम्बन्धो नाभिधीयते । असम्बद्धप्रलापित्वात् भवेत्तावदसङ्गतिः॥ तस्माद् व्याख्याङ्गमिच्छद्धिः सहेतुः सप्रयोजनः । शास्त्रावतारसम्बन्धो वाच्यो नान्योऽस्ति निष्फलः ॥" -मी० श्लो० प्रतिज्ञासू० श्लो० १७,२०,२५ । सम्बन्धाद्यनुबन्धचतुष्टयस्य व्यस्तसमस्तरूपेण चर्चा निम्नलिखितग्रन्थेषु द्रष्टव्या-माध्यमिकवृ० पृ०३। हेतुबि० टी. पृ० । न्यायबि० टी० पृ. ५ । बोधिचर्या० पं० पृ० ५। पादन्यायटी. पृ० १ । तत्त्वसं० पं० पृ० २। सम्बन्धवा० पृ. ७। मा० गौडपा. शा. भा० पृ. ४ । न्यायवा. ता. पृ. ४ । न्यायम. पृ०६। तालो. पृ० ३। न्यायकुमु० पृ. २० । प्रमेयक. पृ०२। सन्मति० टी. मृ० २६९ । शास्त्रदी० पृ. ४ । स्या० रत्ना० पृ० १४ । जैनतर्कवा० पृ० ११ । रत्नाकराव० पृ० ५। (७) "अनुक्तेषु तु प्रतिपत्तभिः निष्प्रयोजनमभिधेयं संभाव्यतास्य प्रकरणस्य काकदन्तपरीक्षाया इव । अशक्यानुष्ठानं वा ज्वरहरतक्षकचूडारनालङ्कारोपदेशवत्, अनभिमतं वा प्रयोजनं मातृविवाहक्रमोपदेशवत् ।"-न्यायबि. टी. पृ०१४। (6) "तस्मात् प्रयोजनरहितं वाक्यं तदर्थो वा न तत् प्रेक्षावता आरभ्यते कर्तुं प्रतिपादयितुं वा. तद्यथा दशदाडिमादिवाक्यम् ।"-हेतुबि० टी० पृ० २। (९) तुलना-"प्रमेयसिद्धिः प्रमाणाद्धि"-सांख्यका०४। “उक्तं च प्रमाणाधीनो हि प्रमेयाधिगमः"-प्र. वार्तिकाल. पृ० ३४०। (१०) "तस्मात श्रोत जनप्रवृत्त्यर्थः प्रयोजनादिवाक्योपन्यासः इति स्थितम् ।" -तत्त्वसं० ५० पृ. ६। “तच्च श्रोतृजनप्रवृत्त्य र्थमिति केचित्" -हेतुबि० टी० पृ० १ । “तच्च श्रोतृप्रवृत्त्यर्थमिति कश्चित्" न्यायावता. वा. वृ० पृ० १। (११) “संशयेनापि प्रवृत्तिदर्शनात् यथा कृषीवलादीनाम्"-तत्वसं० प० पृ० ६ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org