________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः सर्वज्ञ इत्यपि" [तत्त्वसं० श्लो० ३२३०] धर्मसत्तासिद्धर्धर्मिप्रतिपत्तिनान्तरीयकत्वादिति चेत् ; अत्राह-सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् इति । 'सर्वतत्त्वार्थदेशिनम्' इति वचनात् तत्सत्त्वमुक्तमिति गम्यते, वचनस्य वक्तृसत्त्वाऽव्यभिचारात् । न वेदेन व्यभिचारः; पक्षीकरणादिति । निरूपयिष्यते [] तत् । 'स्याद्वादन्यायदेशिनम्' इत्यभिधानात् तत्सर्वज्ञ५ त्वमिति च । तमभ्यय॑ । किमिति ? अत्राह-वक्ष्ये सिद्धि वि निश्च य म् । सिद्धिः
प्रमाणम्।
ननु सिद्धिः [प्रमाणस्य फलम् ] *"प्रमाणस्य फलं साक्षात् सिद्धिः" [सिद्धिवि० १।३] इति वक्ष्यमाणत्वादत्रैव (दन्यैव) तत्कथं सा प्रमाणमिति चेत् ? एतदुत्तरत्र निरूपयिष्यते । विशब्दः अतिशयप्रकर्षद्वैविध्यनाना[३क]त्वेषु वर्तमानो गृह्यते । तत्र अतिशये तावत् अन्यस्यापि जीवादितत्त्वस्य निश्चयं वक्ष्ये सिद्धस्तु सातिशयं वक्ष्ये । कोऽस्या[अ]तिशयः सकलप्रमेयव्यवस्थाहेतुत्वम्, यद्वक्ष्यते-*"सिद्धं यन्न परापेक्ष्यम्" [सिद्धिवि०१।२४] इत्यादि । तथा प्रकर्षे; तस्याः प्रकृष्टं निश्चयं विनिश्चयं वक्ष्ये । कोऽस्य प्रकर्षः ? सौगतादिकल्पिततन्निश्चयादाधिक्यम् । तथा द्वैविध्ये; द्विविधं निश्चयं तस्या वक्ष्ये प्रत्यक्षपरोक्षभेदेन 'किञ्चत् स्वतः किञ्चित् परतः प्रमा
णम्' इत्यनेन वा भेदेन, स्वपरविषयद्वैविध्येन, व्यवहिताव्यवहितफलद्वैविध्येन वा । तथैव ना१५ नात्वे; नाना निश्चयं वक्ष्ये स्वरूपसंख्याविषयफलविप्रतिपत्तिनिरासनानात्वेन ।
ननु च नयादीनामपि विनिश्चयोऽत्र प्रतिपादयिष्यते तत्कथमुच्यते 'सिद्धः प्रमाणस्य' इति चेत् ; न; तेषां श्रुतभेदेन "तत्रैवान्तर्भावात् । तदुक्तम्-*"उपयोगौ श्रुतस्य द्वौ प्रमाणनयभेदतः।" [लघी०श्लो० ६२] न च प्रमाणस्य उपयोगोऽप्रमाणम् ; विरोधात् , *"प्रमाण
नयैरधिगमः" [त० सू० १।६] इत्यस्य व्याघाताच्च । प्रमाणैरधिगमवत् (मः) तर्हि वक्तव्य२० मिति चेत् ; न; विकलादेशस्यापि तद्भेदत्वप्रतिपादनार्थं तथावचनमित्यदोषः । ततः प्रमेय
निर्णयहेतुत्वात् प्रमाणनयानां प्रमाणत्वे समानेऽपि सकलादेशात् नय (ये) निवार्यमाण (णे) प्रमाणशब्दः तत्रैव प्रवर्तते उत्कलितपुंस्केषु विशेषेषु गोशब्दवत् । यद्वक्ष्यते
*"स्यात्प्रमाणात्मकत्वेऽपि प्रमाणप्रभवो नयः। विचारो [३ख] निर्णयोपायः परीक्ष्येत्यवगम्यताम् ॥"
[सिद्धिवि० प्रस्ता० १०] इति । (१) धर्मः सर्वज्ञत्वम् । (२) सर्वज्ञत्वाधारस्य आत्मनः सत्त्वम्। (३) अपौरुषेयेण । (४) प्रतिपादितम् । (५) भिन्नैव । (६) सिद्धिः । (७) निश्चयस्य । (6) तुलना-"प्रामाण्यं तु स्वतःसिद्धमभ्यासात् परतोऽन्यथा ।"-प्रमाणप० पृ० ६३ । परीक्षामु० ॥१३ । (९) तुलना-"चतुर्विधा चात्र विप्रतिपत्तिः संख्यालक्षणगोचरफलविषया ।"-न्यायबि० २। प्रमाणसमु० टी० पृ० ४। (१०) ग्रन्थे। (११) प्रमाण एव । (१२) "उपयोगौ श्रुस्य द्वौ स्याद्वादनयसंज्ञितौ । स्याद्वादः सकलादेशो नयो विकलसंकथा ॥ अनेकान्तात्मकार्थकथनं स्याद्वादः "प्रमाणं स्याद्वादः ।"- लघी० स्व० श्लो० ६२ । (१३) नयस्य । (१४) प्रमाणभेदत्व । (१५) सकलादेशे एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org