________________
११]
मङ्गलश्लोकः ताम् । नहि परमाण्वाकारैस्तच्छून्यं चित्राद्वैतमाभाति अतीताऽनागतपर्यायैरेकात्मवत् । ग्राहकाभाव उभयत्राद्य (त्र । अथ ) नीलाद्याकारैस्तदिष्यते'; तर्हि मेचकमणिदर्शनसमये नीलाद्याकाराणां परस्परमदर्शने सन्तानान्तराणामिव अभावः । दर्शने ऐक्यम् । निराकारवादोऽन्यथा भवेत् । [२क] तेषां तथा[s]दर्शनेऽपि सत्त्वे न परलोकादिनिषेधैकान्त इति कथुमु (कथमुक्त)*"तेन स्वरूपवदन्यदस्तीति तदेव सर्वमिति तज्जानन् सर्वज्ञः" इति ।।
स्यान्मतम्-न्यायोन्यं (नान्योऽन्यं) तदाकाराणां दर्शनं नाप्यदर्शनमिति; तदपि न सूकं (क्तं) स्वरूपेऽपि तथा प्रसङ्गात् । तस्य दर्शनान्नेति चेत् ; अन्यविविक्तदर्शने उक्तो दोषः । अथ तेर्न अन्यस्य अदर्शनम् ; कथं तद् अन्यविविक्ततामात्मनोऽवैति ? कथं ग्रैंकृतिपुरुषादीनामदर्शने नीलादेस्तद्विविक्तताप्रतीतिः, कथं वा सुखादेः आत्मशून्यतावित्तिः, यतो नैरात्म्यदर्शनम् ? 'तेषां दर्शने सुस्थितमद्वैतम् ! अदर्शनादेव तदभाव इति चेत् ; किमिदं तददर्शनम् ? दर्शन- १० निवृत्तिरिति"; कथमप्रतीता सा" अस्ति प्रकृत्यादिवत् ? नीलादिदर्शनं तददर्शनमिति चेत् ; कथमन्यदर्शनम् अन्यादर्शनं विरोधात् ? अन्यविविक्तरूपत्वाच्चेत् ; प्रकृत्यादीनामदर्शने केयं "तद्विविक्तताऽस्य ? अन्यथा वी (पी)तादीनामदर्शनेऽपि नीलस्य "तद्विविक्तताप्रतीतिरिति कथन्न प्रकृतो दोषः ? ननु च अनीलव्यावृत्तिर्नीलम् , अनीलाभावे कथं तद्व्यावृत्तिः, एवं पीतादौ वक्तव्यमिति चेत् ? तर्हि अस्वसंवेदनव्यावृत्तिः स्वसंवेदनं तस्याऽस्वसंवेदनस्याभावे तदपि मा- १५ भूत् । स्वरूपमेतदिति चेत्; नीलादिकमपि तथैवास्तु । तन्न नीलाद्याकारैस्तच्चित्रमिति । भवतु वा, तथापि मेचके नीलादीनामिव नीलमात्रेऽपि तद्विभागः (ग) चिन्तायां तदवस्थो दोषः । ननु" यत एव चित्रैकज्ञानवन्नीलमात्रमपि न घटते [२ख] तत एव तदपि परमार्थतो माभूत् मरीचिकातोयवत् *"मायामरीचिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र. वार्तिकाल. ३।२११] इति वचनादिति चेत् ; आस्तां तावदेतत् । अथ नीलमात्रं स्वभागैरेकमिष्यते; तथा मेचकमपि २० नीलादिभिरेकमिष्यताम् । इष्यत एव *"चित्रप्रतिभासाप्येकैव बुद्धिर्बाह्यचित्रविलक्षणत्वात्" [प्र. वार्तिकाल० ३।२२०] इत्यादि वचनादिति चेत् ; तथा सति न केवलं दृश्यप्राप्ययोः अपि तु "संसारेतरावस्थयोरविच्छेदेन कथञ्चित्तादात्म्यं सिद्धमिति साधूक्तम्-'श्रीवर्धमानम्' इति । एवमन्येऽप्येकान्ताः प्रहन्तव्याः । निरूपयिष्यते चैतत् यथास्थानम् ।
इदमपरं व्याख्यानम्-श्रियोपलक्षितं वर्धमानं पश्चिमतीर्थकरम् अभ्यर्च्य । कथ- २५ म्भूतम् ? सर्वज्ञम् साक्षात्कृताशेषपदाक्यं (र्थम्) । "ननु स एव कुतः सिद्धः *"स"तु
(१) तच्छून्यमिष्यते। (२) नीलाद्याकाराणाम् । ३ व्यवहारेण । ४ परलोकाद्यपि । (५) स्वरूपस्य । (६) स्वरूपेण । (७) सांख्याभिमत । (८) अन्येषां प्रकृतिपुरुषादीनाम् । (९) तेषां प्रकृतिपुरुषादीनामभावः। (१०) चेत् । (११) दर्शननिवृत्तिः । (१२) प्रकृत्यादिविविक्तता । (१३) नीलादेः । (१४) पीतादिविविक्तता । (१५) स्वसंवेदनमपि । (१६) अभावप्रसङ्गः । (१७) प्रज्ञाकरगुप्तः प्राह । (१८) नीलमात्रमपि। (१९) "शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धीलादयः..."-प्र. वार्तिकाल. । (२०) संसारमुक्तावस्थाव्यापी एक आत्मा सिद्ध इत्यर्थः । (२१) मीमांसकः प्राह। (२२) "नरः कोऽप्यस्ति सर्वज्ञः स तु सर्वज्ञ इत्यपि । साधनं यत्प्रयुज्यत प्रतिज्ञामात्रमेव तत् ॥” श्लोकोऽयं कुमारिलनाम्ना तत्वसंग्रह (पृ. ८४१) किञ्चित् पाठभेदेन वर्तते । द्रष्टव्यम्-न्यायावता. वा. वृ० पृ० ५५|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org