________________
१०
१५
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः तथोक्तस्तम् इति । कामचारेण विशेषणविशेष्यभाव इति श्रीशब्दस्य विशेषणाभिधायित्वम् 'अन्यस्य विशेषा (या)भिधायित्वम् , वर्धमानाक्षरनि (मि) त्यादिवत् , इतरथा वर्धमानशब्दस्य पूर्वनिपातः श्रीशब्दस्य परनिपातः स्यात् । एवं वा सविशेषणस्य पूर्वनिपातात् । नन्वेवंविशेषणेऽपि न यथोक्तदोषनिवृत्तिः । नहि स्वपक्षविशेषणमात्रात् परपक्षो निवर्तते अतिप्रङ्गात् अपि तु न्यायात् , ततः [१ख स एव उच्यतामिति चेत् ; अत्राह-'सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम्' इति । सर्वे तत्त्वार्थाः जीवादयः तेषां स्याद्वादः अनेकान्तः, विषयिशब्दस्य विषये उपचारात् , तस्य न्यायो ग्राहकं प्रत्यक्षादिप्रमाणम् , तदिस (श)ति कथयति इत्येवं शीलं तद्देशिनम् इति । एतदुक्तं भवति-तदुपदेशे 'मांसचक्षुषः के अन्ये इति भगवानेच (व) तदुपदेष्टा जातः, तदुपदेशाच्च केवलं वयं व्याधूताज्ञानतमःस (तमसः) स्वं परं च तद्वर्त्मनि वर्तयितुं समर्थाः। तथाहिदृश्यप्राप्ययोरिव विचारा[त् ] दृश्यमात्रेऽपि विज्ञप्तिरूपे मंत्योद्व(द) धिस्तम्भादिभागानां नैकत्वमित्यतमः (त्यन्त्याः ) परमाणव एवा वशिष्यन्ते, तत्र चैकपरमाणुवेदनेन अन्येषामनुपलम्भेन सन्तानान्तरवदसत्त्वात् तस्य च स्वात्मनेति कस्य क्षणिकत्वदर्शनम् ? येनोच्यते-*"यद्यथावभासते" "इत्यादि ? *"यदवभासते तज्ज्ञानम्" "इत्यादि च । कस्य वा प्रतिभासाद्वैतता येनेदमप्युच्यते-*"यद्यद्वैतेन तोषोऽस्ति मुक्त एवासि सर्वथा।"[प्र०वार्तिकाल० २।३७] इत्यादि ? यदि पुनः एकानेकविकल्पशून्यं तदिष्यते"; तर्हि प्रतिभासाऽसून्य (भासोऽशून्य) मेवेष्य
(१) वर्धमानशब्दस्य । (२) विषयी स्याद्वादो वाचकत्वात् विषयश्च अनेकान्तः तद्वाच्यत्वात् । (३) अनेकान्ते। (४) चर्मलोचनाः। (५) निर्विकल्पकदर्शनविषयभूते । (६) बुद्धया । उदधिश्च स्तम्भादयश्च तेषां भागानाम् । तुलना-“अथ नानात्वे बुद्धीनां प्रतिपरमाणु तावत्यो बुद्धय इति परमाणुग्रहणप्रसङ्गोऽनेकप्रतिपत्त्यप्रसङ्गश्च परस्परमप्रतिपत्तेरभावात् (१) च खलु स्वसंविदितानां नानात्वप्रतिपत्तिः सन्तानान्तरस्यापि प्रतिभासप्रसङ्गात् ....." -प्र. वार्तिकाल. ३।११ । “नन्वेवं नीलवेदनस्यापि प्रतिपरमाणु भेदात् नीलाणुसंवेदनैः परस्परं भिन्नैः भवितव्यं..." -अष्टस० पृ० ७७ । "तथाहि नीले प्रवृत्तं ज्ञानं पीतादौ न प्रवर्तते इति पीतादेः सन्तानान्तरवदभावः । पीतादौ च प्रवृत्तं तन्नीले न प्रवर्तते इत्यस्याप्यभावस्तद्वत् । नीलकुवलयसूक्ष्मांशे च प्रवृत्तिमज्ज्ञानं नेतरांशनिरीक्षणे क्षममिति तंदशानामप्यभावः संविदितांशस्य चावशिष्टस्य स्वयमनंशस्याप्रतिभासनात् सर्वाभावः ।"-प्रमेयक. पृ० ९७। (७) परमाणूनाम् । (८) एकपरमाणोः। (८) निरंशस्य प्रतिभासाभावात् स्वयमभावः । (१०) “यद् यथा भासते ज्ञानं तत्तथैवानुभूयते ।"-प्र. वा० ३।२२२ । तुलना-"तथा यद् यथावभासते तत् तथैव सत् इत्यभ्युपगन्तव्यं यथा नीलकुवलयं नीलतयावभासमानं तेनैव रूपेण सत् , क्षणपरिगतेनैव रूपेण अवभासन्ते च सर्वे भावाः इत्यनुमानतोऽपि ।” (पूर्वपक्षे)-न्यायकुमु० पृ० ३७८ । (११) तुलना-"तथाहि-यदवभासते तज्ज्ञानमेव यथा सुखादि, अवभासन्ते च भावा इति ।" (पूर्वपक्षे)न्यायकुमु० पृ० ११७ । प्रमेयक०पृ० ८३। युक्त्यनु०टी०पृ. ४५ (१२) "न परलोको नेहलोको न परलोकबाधनं (-साधन-पाठान्तरम्) न सन्देहो न महाभूतपरिणतिरित्यादि विज्ञप्तिमात्रकमेव । अथापि व्यवहारादेतत्; एवं परलोकोऽपीति । यद्यद्वैतेन तोषोऽस्ति मुक्त एवासि सर्वथा। वर्तते व्यवहारश्चेत् परलोकोऽपि चिन्त्यताम् ॥३९८॥"-प्र. वार्तिकाल. पृ० ५७ । (१३) "भावा येन निरूप्यन्ते तद्पं नास्ति तत्त्वतः । यस्मादेकमनेकञ्च रूपं तेषां न विद्यते ॥"-प्र. वा० ३।४६०। “यदेकानेकस्वभावं न भवति न तत्परमार्थसत् यथा व्योमकमलम् एकानेकस्वभावं च न भवति विज्ञानम् ।"-तर्कभा० मो० पृ. ३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org