________________
श्रीमद्भट्टाकलङ्कदेवविरचित-सिद्धिविनिश्चयस्य
रविभद्रपादोपजीवि-अनन्तवीर्याचार्यविनिर्मिता सिद्धि वि निश्च य टीका
आलोकाख्यटिप्पणसहिता [१ प्रत्यक्षसिद्धिः]
॥ ॐ नमोऽहते ॥ अ क ल कं जिनं भक्त्या गुरुं देवीं सर[स्व]तीम् । नत्वा टीका प्रवक्ष्यामि शुद्धां सि द्धि वि निश्च ये ॥१॥ अ क ल क वचः काले कलौ न केलयापि यत् । नृषु लभ्यं क्वचिल्लब्ध्वा तत्रैवास्तु मतिर्मम ॥२॥ दे व स्याऽ ने न्त वी र्यो ऽपि पैदं व्यक्तं तु सर्वतः । न जानीते ऽक ल क स्य चित्रमेतत् परं भुवि ॥३॥ अ क ल क वचोऽम्भोधेः सूक्तरत्नानि यद्यपि । गृह्यन्ते बहुभिः सैर (स्वैरं) सद्रत्नाकर एव सः ॥४॥ सर्वधर्म स्य] नैरात्म्यं कथयन्नपि सर्वथा ।
धै म की तिः पदं गच्छेदाकल[ङ्क] कथं ननु ॥५॥ शास्त्रस्यादौ तदविघ्नप्रसिद्धिप्रथनादिकं फलमभिसमीक्ष्य 'सर्वज्ञम्' इत्यादि मङ्गलमाई
[ सर्वज्ञं सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् ।
श्रीवर्धमानमभ्यर्च्य वक्ष्ये सि द्धि वि नि श्च य म् ॥१॥]
अस्यायमर्थः-सर्वज्ञम् सर्ववेदिनम् , अभ्यर्च्य अर्चित्वा । नँनु 'प्रतिभासाद्वैतादन्यस्याभावात् तदेव सर्वम् , तज्जानातीति सर्वज्ञः स्वरूपज्ञः, तमभ्यर्च्य इति प्राप्तम्' इति चेत् ; १५ अत्राह-'श्रीवर्धमानम्' इति । श्रीः अशेषतत्त्वार्थज्ञानादिसम्पद् इह गृह्यते, सा पूर्वापूर्वपर्याय(पूर्वपर्याय) परित्यागाऽजहवृत्त्युत्तरपर्यायोपादानेन वर्धमाना उपरमविरहेण प्रवर्त्तमाना यस्य स
अकलकं नमस्कृत्य तुलनार्थावबोधकम् ।
आलोकाख्यमहं वक्ष्ये महेन्द्रष्टिप्पणं सुधीः ॥१॥ (१) लेशेन । (२) अनन्तशक्तियुक्तोऽपि, पक्षे ग्रन्थकारः। (३) वाक्यम् । (४) स्पष्टम् । . (५) बौद्धाचार्यः । (६) अकलङ्कदेवः । (७) प्रतिभासाद्वैतवादी प्रज्ञाकरः प्राह । (८) प्रतिभासाद्वैतमेव । "परमार्थतः तदद्वैतावबोधादेव प्रमाणं भगवानपि न सर्वार्थपरिज्ञानतः। सर्वार्थपरिज्ञानं तु लोकव्यवहारेण .सांवृतमेव । तथा चोक्तम्- अद्वयं यानमुत्तमम् ।" -प्र. वार्तिकाल० २।७। (९) तुलना"पूर्वाकारपरित्यागाऽजहद्वृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः।" -अष्टस० पृ० ६५ । "गपरस्वभावपरिहारावाप्तिस्थितिलक्षणोऽर्थः"-प्रमाणसं० पृ० १२३ ।'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org