________________
२१६
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः परमाणवः पारिमण्डल्यं [भित्त्वा] स्थलमेकं स्वभावं स्वयमुपगताः समुपलक्ष्यन्ते तथापरिणामात् । न हि तथा परिणतं तत् विप्रतिषेधात् । ]
एवं सति पारिमण्डल्यं च निरंशत्वं [च] नानात्वं च अदृश्यता च अत्यक्ताः पारिमण्डल्यनानात्वाऽदृश्यता यैः ते तथोक्ताः, तेच ते अणवश्च । ते किं कुर्वन्ति ? इत्याह५ तद् इत्यादि । तत्प्रत्यनीकं पारिमण्डल्यनानात्वादृश्यताप्रत्यनीकं सांशमेकं दृश्यम् इति यावत् । आत्मानं स्वभावं विभ्रते स्वीकुर्वन्ति । कैः ? इत्याह-संयोगैः नैरन्तर्यैः । अञ्जसा परमार्थतः । अत्यक्तपारिमण्डल्यपदेन घटवत् तत्परावयवानामपि सांशत्वे अनवस्था स्यादिति कल्पनं निरस्यति, अत्यक्तनानात्वध्वनिना अवयविनो निरंशत्वम् ,
अत्यक्तादृश्यतावचनेन [१७७ख] दृष्टे प्रमाणान्तरावृत्तिम् , 'अणवः' इत्यनेन प्रकृतिः १० कारणम्', पुरुषः कारणम्" इत्येतत्, तत्प्रत्यनीकमित्यतः 'परमाणुभ्यः परमाणव एव निरन्तरा दृश्या जायन्ते' इति, "आत्मानम्' इत्यनेन वैशेषिकादिमतम् 'अञ्जसा' इत्यनेन कल्पितत्वम् इति ।
____ननु कुतः परमाणवः सिद्धा येनैवं स्यात् ? नतावत् प्रत्यक्षतः; तत्र तत्प्रतिभासविरहात् ___ स्वयमनभ्युपगमात् । तन्न युक्तम्-*"अत्र प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः" [हेतुबि० १५ पृ० ५४] इति । तत एव नानुमानतोऽपि; प्रत्यक्षाभावे तँन्मूलस्य तस्य॑ अनवतारात् । नापि इन्द्रियवत् कार्यव्यतिरेकतः तत्सिद्धिः; सत्सु अन्येषु कारणेषु तदभावे नियतेन (नियमेन) अनुपजायमानस्य कस्यचित् कार्यस्याऽभावात् , स्थूलादेव मृत्पिण्डात्"तथाविधघटोत्पत्तिदर्शनात् । ___यत्पुनरेतत् - 'यत्स्थूलं तद् अल्पपरिमाणकारणारब्धं यथा पटः, स्थूलं च अष्टाणुकादि कार्यम् , तत् स्व[ल्प]परिमाणकारणमिति परमाणुसिद्धिः' इति; तदसारम् ; यतः सूक्ष्मम२० पेक्ष्य स्थूलमिति भवति । न च अष्टाणुकात् परं रूपं सिद्धमस्ति यदपेक्ष्य अष्टाणुकं स्थूलं स्यात् । 'अत एव तत्सिद्धिरिति चेत् ; अस्यापि कुतः ? तत इति चेत् ; अन्योन्यसंश्रयः-सिद्धे हि ततः परस्मिन् तद्रूपे ततः तत्स्थूलतासिद्धिः, अस्याश्च तत्सिद्धिरिति ।
यच्चान्यत्-'यत् स्थूलं तद्भिद्यमानं घादि (घटादि) दृष्टम् , स्थूलं च अष्टाणुकम्, ततः तदपि भिद्यते तावद् अभिद्यमानभेदपर्यन्तमिति तत्सिद्धिः' इति; तदपि विलक्षाभिधानम् ; यतः अष्टा
(१) अणुपरिमाणम् । “नित्यं परमाणुमनःसु, तत्तु पारिमण्डल्यम् । पारिमण्डल्यमिति तस्य नाम । तथाहि-परिमण्डलानि परमाणुमनांसि, तेषां भावः पारिमण्डल्यं तत्परिमाणमेव ।"-प्रश० व्यो० पृ. ४७३ । "पारिमण्डल्यमिति सर्वापकृष्टं परिमाणम् ।"-प्रश०कन्द-पृ० १३३।“पारिमण्डल्यं परमाणुपरिमाणम् ।"सप्तप० टी० पृ० ४९। मुक्ता० श्लो० १५। (२) कपालकपालिकादीनामपि । (३) सांख्यस्य । (४) ब्रह्मवादिनः। (५) 'निरस्यति' इति गतेन सम्बन्धः । (६) "प्रत्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकयोः गतिः..."-प्र० वार्तिकाल. पृ० १८३ । (७) प्रत्यक्षपूर्वकस्य । (८) अनुमानस्य । (९) यदीन्द्रियं न स्यात् तर्हि रूपादिज्ञानं न स्यादितिवत् यदि परमाणवो न स्युः तर्हि घटादिकार्य कुतः स्यादिति । (१०) परमाण्वभावे । (११) स्थूल । (१२) "तथा कार्यादल्पपरिमाणं समवायिकारणं तस्याप्यन्यदल्पपरिमाणमित्याचं कार्य निरतिशयपरमाणुपरिमाणैरारब्धमिति ज्ञायते ।"-प्रश. व्यो० पृ० २२४ । (१३) सूक्ष्म वस्तु । (१४) अष्टाणुकात् स्थूलात् । (१५) परस्मात् सूक्ष्मात् । (१६) परमाणु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org