________________
३१२३] उपमानादि मतिज्ञानमेव
२१७ णुकस्य भेदनतः परं न किञ्चिद् भवत्येव प्रमाणाभावात् । तन्न अणुसिद्धिः इति चेत् ; अत्रप्रतिविधीयते-[१७७ख]
परिमाणस्य उत्कर्षातिशयात् विज्ञानमहत्त्वपरिमाणकाष्ठासिद्धिवद् अपकर्षाविषयात (तिशयात्) पुद्गलाल्पपरिमाणकाष्ठासिद्धिः । प्रयोगे:-परिमाणस्य अपकर्षः कचित् परमकाष्ठावान् अतिशयवत्त्वात् तत्प्रकर्षवत् । न च साध्यशून्यो दृष्टान्तः, इतरथा सर्वज्ञाद्यभावः प्रमाणबाधितो ५ भवेत् ।
यत्पुनरुक्तं परेण तदपकर्षकाष्ठायां भावः किमास्ते, आहोस्वित् सर्वथा नश्यति इति न निश्चयोऽस्ति इति; तदसारम् ; सर्वथा तद्विनाशाभावात् युक्तिबाधनात् । तत्प्रकर्षेऽपि दोषाच्च ।
कारिकां व्याचष्टे-परमाणव इत्यादिना । परमाणवः 'समुपलक्ष्यन्ते' इति सम्बन्धः, 'विशदाबाधितरूपेण समीचीनेन लक्ष्यन्ते' इत्यस्य प्रदर्शनार्थम्-समः अभिधानम् । 'स्वयं १० स्वग्राहकज्ञानसामीप्यम् उपगता न आकारसमर्पणेन' इत्यस्य कथनार्थम् उपस्य, 'निश्चीयन्ते न अविकल्पदर्शनेन दृश्यन्ते' इत्यस्य च 'लक्ष्यन्ते' इत्यस्य । किं कुर्वाणाः किम् ? इत्याहस्थूलमेकं 'प्रत्यक्षमात्मानम्' इत्यनुवर्तते । क्वचित् 'स्वभावम्' इति श्रूयते । पुनरपि किं कुवेन् ? इत्याह-पारिमण्डल्य इत्यादि । सुगमम् । कुत एतत् ? इत्यत्राह-तथा इत्यादि । तथा तेन अनन्तरप्रकारेण परिणामात् । एतदपि कुतः ? इत्यत्राह-नहि इत्यादि । हिः यस्मात् १५ न तथा तेन अनन्तरप्रकारेण अपरिणतं तत् तदनन्तरं वस्तु भवति । कुतः ? विप्रतिषेधात् इति ।
- प्रकृतनिगमनव्याजेन उपमानादीनां स्वाभ्युपगतज्ञाने अन्तर्भावं कुर्वन्नाह- 'तदेतद्' इत्यादि ।
["तदेतत् उपमानादि मतिज्ञानप्रभेदलक्षणम् अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनि- २० बोधात्मकं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च प्रागभिलापसंसर्गात् प्रमाणमविसंवादात् तद्विपरीतमपि तत्प्रभेदलक्षणम् । मिथ्याज्ञानम् अप्रमाणम् , यथा एकान्तविषयदर्शनानुमानादिकमन्यद्वा ।]
यत एवं तत् तस्मात् एतद् [१७८क] अनन्तरं निरूप्यमाणं उपमानादि 'ज्ञानम्' इति सम्बन्धः । तत् किम् ? इत्याह-मतिज्ञान इत्यादि । मतिज्ञानस्य प्रभेदः प्रपञ्चः स एव २५ लक्षणं स्वरूपं यस्य तत्तथोक्तं मतिज्ञानविशेष इति यावत् । कुत एतत् ? इत्यत्राह-['अवग्रह' इत्यादि] अवग्रह आदिर्यस्याः सा चासौ मतिः समासः, सा च स्मृतिश्च संज्ञा च चिन्ता
(१) यथा विज्ञानस्य उत्कर्षातिशयदर्शनात् पराकाष्ठासिद्धिर्भवति यथा वा परिमाणस्य अतिमहापरिमाणरूपता च प्रसाध्यते तथैव । (२) "तथा घटादिकारणकारणेषु अल्पतरादिभावः क्वचिद्विश्रान्तः तरतमशब्दवाच्यत्वात् महापरिमाणवत्। यत्र विश्रान्तस्ते परमाणव इति ।"-प्रश० व्यो० पू० २२४ । प्रश० कन्द० पृ० ३१ । न्यायकुमु० पृ. २१७ । स्या. रत्ना० पृ. ८७०। (३) सर्वज्ञ-महत्त्वपरिमाणयोरभावो भवेत्, यश्च प्रमाणबाधितः । (४)पदार्थस्य नाशाभावात् । (५) परिमाणप्रकर्षेऽपि इयं दुष्कल्पना भवेत् । (६) उपसर्गस्य । (७) कथनम् । (८) प्रदर्शनार्थम् । (९) कथनम् । (१०) चूर्णिप्रकरणमेतत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org