________________
२१८
सिद्धिविनिश्चयटीकायाम, [३ प्रमाणान्तरसिद्धिः च अभिनिबोधश्च ते आत्मानो यस्य तत्तथोक्तम् । एतच्च तत्प्रभेदविशेषणमपि साधनं द्रष्टव्यम् , ततः तज्ज्ञानं तदात्मकत्वात् मतिप्रभेदलक्षणम् इति ।
ननु उपमादीनादीनां तंत्रान्तर्भावो निरूपयितुमारब्धः तत्किमर्थम् अवग्रहादिमतिस्मृतिग्रहणमिति चेत् ? सत्यम् ; तथापि प्रसिद्धसंज्ञादिज्ञानोत्पत्तिक्रमस्य उपमानादौ प्रदर्शनार्थं तद्६ ग्रहणमित्यदोषः । तथाहि-यथैव पूर्वपर्यायाऽवग्रहाद्याहितसंस्कारस्य परपर्यायावग्रहात् पूर्वपर्यायस्मृतौ प्रसिद्धसंज्ञाचिन्ताऽभिनिबोधाः तथैव गवयसदृशगवाद्यवग्रहाद्याहितसंस्कारस्य पुनर्गवयाद्यवग्रहाद् गोस्मरणे सति 'तेन सदृशोऽयम्' इति ज्ञानं जायते इति संज्ञातो न भिद्यते । एतेन वैलक्षण्यसंख्यादिज्ञानं चर्चितम् ।
ननु च अवग्रहादिमतिस्मृतिप्रभवस्य ज्ञानस्य संज्ञात्मकत्वे सर्वतो व्यावृत्तस्य घटस्य १० अवग्रहात् संस्कारे पुनः तथाविधस्य भूतलादेरवग्रहाद् अवगृहीतघटस्मरणाद् ‘इह स घटो
नास्ति' इति ज्ञानं संज्ञा भवेत् , न चैवम् , सादृश्यैकत्वप्रत्यवमर्शस्यैव तत्त्वोपगमात् *"प्रत्यभिज्ञा द्विधा" [न्यायवि० २।५०] इत्यादि वचनात् । तस्माद् अभावाख्यं तत् प्रमाणान्तरमिति मीमांसकः । तदुक्तम्
*"गृहीत्वा "वस्तुसद्भावं [१७८ख] स्मृत्वा च "प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते अक्षानपेक्षया ॥"
मी० श्लो० अभावप० श्लो० २७] इति चेत् ; तन्न सारम् ; तस्यापि 'तत्त्वोपगमात् , दृष्टप्रत्यवमर्शात्मकत्वात् । *"प्रत्यभिज्ञा द्विधा" [न्यायवि० २।५०] इत्यादि तु वचनम् एकत्ववत् सादृश्ये प्रत्यभिज्ञात्वप्रतिपादनाथ
न परिगणनार्थम् , इतरथा * "मतिस्मृति-" [त० सू० १।१३] इत्यादि सूत्रम् अध्यापम् २० (अन्याय्यं) भवेत् ।
स्यान्मतम् , घटभूतलयोः अन्योन्यविवेकस्य तत्प्रत्यक्षाभ्यां गोगवययोः सादृश्यवत् प्रतीतौ पुनः तत्प्रत्यवमर्शः प्रत्यभिज्ञानं भवेत् , न चैवं मानसनास्तिताज्ञानादेव'तत्प्रतीतेः। तथा चोक्तम्
*"न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः।। भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि ॥"
मी० श्लो० अभावप० श्लो० १८] इति चेत् ; तन्न युक्तम् ; भावांशवद् 'इतरस्यापि प्रत्यक्ष एवं । प्रतियोगिनः सर्वान्यसंसृष्टस्य स्मरणे न क्वचित् प्रतिषेधः, अभ्युपगमबाधनात् । तदसंसृष्टस्य स्मरणं तथा पूर्वमनुभवे, अन्यथा अति
(१) उपमानादिज्ञानम् । (२) अवग्रहाद्यात्मकत्वात् । (३) मतिज्ञाने । (४) पुरुषस्य । (५) उत्पद्यन्ते । (६) उपमानम् । (७) सर्वतो व्यावृत्तस्य । (८) प्रत्यभिज्ञानत्वोपगमात् । (९) सादृश्यविनि
धना, एकत्वविषया च । (१०) शुद्धभूतलं वस्तु । (११) यस्य अभावः क्रियते सः प्रतियोगी तम् । (१२) प्रत्यभिज्ञानत्वस्वीकारात् । (१३) घट-भूतलग्राहिप्रत्यक्षाभ्याम् । (१४) अभावप्रतीतेः । (१५) अभावस्यापि । (१६) प्रतीतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org