________________
३।२३ ]
अभावस्य प्रत्यभिज्ञानेऽन्तर्भावः
प्रसङ्गः । तत्रापि तदन्यप्रतियोगिस्मरणात् तथाप्रतिपत्तौ अनवस्था । घटविविक्तभूतलस्मरणादिति अन्योऽन्यसंश्रयः, ततो यत्किञ्चिदेतत् । तथा अवग्रहादिमतिस्मृतिसंज्ञाभ्यो जायमानं ज्ञानं चिन्तात्मकत्वात् तत्प्रभेदलक्षणं न योगिप्रत्यक्षम् तस्य तद्विरोधात् ।
चेत् ;
"
एतेन 'मानसं प्रत्यक्षं तत्" इति निरस्तम् । चक्षुरादिप्रत्यक्ष सामग्रीतो भिन्नसामग्रीप्रभवत्वाच्च । तथापि तत्त्वे अतिप्रसङ्गः ।
तद्वत् चिन्ताप्रभवत्वाद् अर्थापत्तिरपि प्रसिद्धा [ १७९क] अनुमानवत् तत्प्रभेदलक्षणम् अभिनिबोधात्मकत्वात् ।
२१९
स्यान्मतम् - एकत्वप्रत्यवमर्शः प्रत्यभिज्ञानम्, न सादृश्यादिप्रत्यवमर्शस्य तत्प्रभेदलक्षणे अन्तर्भाव इति चेत्; अत्राह - द्रव्य इत्यादि । अस्यायमर्थः - यस्मात् तदेतद् विज्ञानं परेण उच्यमानं द्रव्यपर्यायविषयं सामान्यविशेषविषयं च तस्मात् यथोक्तं (तथोक्तम् ) । सामान्यं हि १० सादृश्यमेव तद्विषयं च ज्ञानं परेणापि प्रत्यभिज्ञानमिष्यते इति मन्यते । किं सर्वं तन्न लक्षणं (तत्तल्लणम् ?) न इत्याह- प्राग् अभिलापसंसर्गात् इति । गवयादिशब्दयोजनात् [ प्राकू ] यज्जायते उपमानादिज्ञानं तत्' न पुनः 'सोऽयं गवयशब्दवाच्यः' इत्यादि ज्ञानम् इति भावः । न केवलं तत् तल्लक्षणमेव किन्तु प्रमाणमपि इति दर्शयन्नाह - प्रमाणम् । च शब्दोऽत्र द्रष्टव्यः । कुतः ? अविसंवादात् । अन्यदपि ज्ञानं तत्प्रभेदलक्षणं दर्शयन्नाह - तद् इत्यादि । तस्माद् १५ उक्ताद् उपमानादेः विपरीतं 'गोरिव गवयः' इत्याद्यागमाहितसंस्कारस्य 'शाखादिमान् वृक्ष: क्षीराम्भःप्रविवेचनतुण्डो हंसः' इत्याद्यागमाहितसंस्कारस्य च नैयायिकाद्युपमानादिज्ञानं तदपि द्रव्यादिविषयं सत् तत्प्रभेदलक्षणं प्रमाणं वादादिति ( णमविसंवादादिति) सम्बन्धः ।
साम्प्रतमप्रमाणं दर्शयन्नाह- मिथ्याज्ञानम् इति । मिथ्या 'अवग्रहादिमतिस्मृतिसंज्ञाचिन्ताभिनिबोधात्मकं ज्ञानम्' इति अज्ञानम् अप्रमाणम् प्रमाणं न भवति 'मत्यज्ञानत्वात्' इति २० द्रष्टव्यम् । अत्र निदर्शनमाह - यथा इत्यादि । एकान्तस्य विषयस्य सम्बन्धि दर्शनाऽनु मानादिकम् आदि [१७९ख] शब्देन आगमपरिग्रहं तद्यवेति (ह: तदिवेति ) । अन्यद्वा स्वप्नादि - ज्ञानं वा । अनेन लौकिकशास्त्रीयदृष्टान्तद्वयं दर्शयति ।
यदि वा, अन्यथा पूर्वपक्षयित्वा एतद् ज्ञातव्यम्, तद्यथा पूर्वप्रस्तावद्वये यदवग्रहादि - धारणापर्यन्तं ज्ञानं चिन्तितम्, यच 'प्रमाणम् अविसंवादिस्मृतिः' इत्यादिना स्मरणम् अस्मिन्", २५ चतुर्थप्रस्तावे प्रत्यभिज्ञानं निरूपयिष्यमाणम्, तत्रैव लेशतः क्रमप्राप्तप्रस्ताववशेन "भूताभव्याः " " इत्यादिना पूर्वं चिन्तितं [ तर्क ] ज्ञानम्, षष्ठे चिन्तयिष्यमाणम् अनुमानं च पञ्चसु ज्ञानेषु क्व अन्तर्भाव्यतामिति ? तत्राह - तदेतद् इत्यादि । तदेतत् निरूपितं निरूपयिष्यमाणं च ।
(१) असंसृष्टत्वप्रतिपत्तौ । (२) घटविविक्तभूतलस्मरणाद् घटस्य भूतलासंसृष्टता प्रतिपत्तिः, घटस्य भूतलासंसृष्टताप्रतिपत्तौ च घटविविक्तभूतलस्मरणमिति । ( ३ ) मतिप्रभेदात्मकम् । (४) अभावज्ञानम् । (५) न तत् प्रत्यक्षात्मकम् । (६) मतिज्ञानप्रभेदलक्षणम् । (७) मीमांसकादिनापि । (८) मतिज्ञानम् । (९) एतत् श्रुतमेव । (१०) पुंसः । ( ११ ) मतिज्ञानप्रभेदलक्षणम् । ( १२ ) तृतीय प्रस्तावे । (१३) तृतीय - प्रस्तावे । (१४) पृ० १८७ । (१५) मतिश्रुतावधिमनः पर्यय केवलज्ञानेषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org