________________
२२०
सिद्धिविनिश्चयटीकायाम् [३ प्रमाणान्तरसिद्धिः किम् ? ज्ञानम् । तत् किम् ? इत्याह-[मति]ज्ञानप्रभेदलक्षणं मतिज्ञानाऽन्तर्भूतमित्यर्थः । किम्भूतम् ? इत्याह-अवग्रहादि इत्यादि । पुनरपि कथंभूतम् ? इत्याह-द्रव्य इत्यादि । किं सर्वम् ? न, इत्याह-प्राग् इत्यादि । तत्संसर्गाद् ऊर्ध्वं 'श्रुतम्' इति मन्यते ।।
ननु च पूर्वम् अत्र अन्यत्र च स्मरणादि सर्वं 'श्रुतम्' इत्युक्तम् , तत्कथन्न विरोध इति ५ चेत् ? न विरोधः, मुख्यश्रुतसाधाद् उपचारेण तथाभिधानात् । तच्च प्रमाणम् । कुतः ? अविसंवादात् । सर्वं तर्हि तदात्मकं ज्ञानं तल्लक्षणं प्रसक्तम् ; इत्याह-तद्विपरीतम् इत्यादि । तत् तस्मात् द्रव्यादिविषयात् तदात्मकाज्ज्ञानाद् विपरीतं विलक्षणं 'ज्ञानम्' इत्यनुवर्तते मत्यज्ञानं मतिज्ञानं न भवति । कुतः ? अप्रमाणं यतः द्रव्यादिविषयं न भवति इत्यभिप्रायः । शेषं पूर्ववत् ।
___ क्वचित्पुस्तके-*"प्रमाणमेक[१८०क] मध्यक्षमगौणमपरे विदुः" इत्यादि सकलं १० चू णि प्र क र ण मस्ति, तत् कैश्चिन्न व्याख्यातं, वद्गलं (१) पौनरुक्तयस्य अप्रस्तुताभिधानस्य च तत्र भावात् ।
ननु यदुक्तम्-'मतिज्ञानप्रभेदलक्षणं ज्ञानं प्रमाणम् अविसंवादकत्वात्' इति; तदयुक्तम् ; कचिद् अ[वि]संवादाभावात् । तथाहि-[न] दृष्टस्य पुनः प्राप्तिः अस्ति, भवतु वा सा स्वप्ने
ऽप्यस्ति । यदि पुनरसौ न तत्प्राप्तिः, कथम् अन्या ? विशेषाऽभावात् । अथ अर्थदर्शनम् १५ अविसंवादो न तत्प्राप्तिः'; इदमपि तादृगेव, विप्लवेऽपि' अस्य भावात् । अथ अर्थतव्य
वस्था विपक्षवत् ; तत्प्रतीतिश्च प्रत्यक्षतः अनुमानतो वा गत्यन्तराभावात् ? परपर्यनुयोगोऽपि नातो युक्तः असम्बद्धप्रलापित्वप्रसङ्गात् । भवतु तत एव सा इति चेत् ; द्रव्यते (उच्यते)
[ज्ञानी येनातिशेते भवभृतमितरं तत्प्रमाणं समन्तात् , हेयोपादेयसिद्धौ न पुनरनुभवोऽभूतकल्पोऽविकल्पः । स्थात्प्रत्यक्षस्मृत्यभिज्ञा स्वपरविषयतर्कानुमात्मा मतिः,
चिन्ताऽचिन्त्यात्मिकेयं कलयति विषयादन्यमन्यत्र सिद्धौ॥२४॥] ज्ञानी प्रत्यक्षादिज्ञानवान् , येन प्रत्यक्षादिज्ञानेन अतिशेते विजयते, अन्येन तदतिशायनाऽयोगात् ज्ञानेन इति लभ्यते । कमतिशेते ? इत्याह-भवभृतम् अविद्याविलासिनी
दर्शिताऽनेकजन्मादिविभ्रमप्रपञ्चम् । कथंभूतम् ? इत्याह-इतरम् अज्ञानिनं विभ्रमान्ये (मात्तम् ६५ ए)कान्ततत्त्वे विपर्यासान[ध्य]वसायोपपन्नं नैयायिकादिकम् । तत् किम् ? इत्याह-तद्
इत्यादि । स येन तम् अति [शेते] तत् 'तत्' इत्यनेन परामृश्यते, तत्प्रमाणम् , अन्यथा कुतस्ततः स्वेष्टसिद्धिः बहिरर्थवदिति मन्यते । किमर्थम् ? इत्यत्राह-समन्तात् इत्यादि । समन्तात् सर्वतो हेयं यत्तत्त्वं सत्येतरप्रविभागलक्षणं यच्च उपादेयं विभ्रमाद्य (घ)कान्त
रूपं तयोः सिद्धौ तत्सिद्धिनिमित्तम् । एतदुक्तं भवति-यदि न किञ्चित् प्रमाणम् कुतः अभि३० मत[१८०ख]सिद्धिः ? तदस्ति चेत् ; साकल्येन प्रमाभङ्गविधानविरोधः इति । ..
(१) शब्दसंसर्गात् । (२) श्रुतत्वाभिधानात् । (३) व्याख्यातृभिः । (१) अर्थप्राप्तिः । (५) मिथ्याज्ञानेऽपि । (६) प्रमाणमस्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org