________________
२२१
३१२४)
स्मृत्यादयः परोक्षम् ____ अपरस्तु आहे-न किञ्चिद् विज्ञानं प्रमाणम् नाप्यप्रमाणं सकलविकल्पातीतत्वात् तत्त्वस्ये, तस्य च स्वसंवेदनाध्यक्षप्रमाणतः सिद्धेः, नापि प्रमाभङ्गविधानविरोधः बहिः तद्विधानात्' इति । तत्राह-न पुनः इत्यादि । न पुन: नैव अनुभवः 'प्रमाणम्' इति सम्बन्धः । क ? इत्याहहेयोपादेयसिद्धी हेयं सकलविकल्पतत्त्वं उपादेयं तद्रहितं संवेदनमात्रम्, तत्सिद्धौ इति । किंभूतोऽनुभवः ? इत्याह-अविकल्प इति । न विद्यते सत्येतरादिविकल्पो भेदो यस्य स ५ तथोक्तः । कुतः ? इत्यत्राह-अभूतकल्प इति । अभूतम् अजातं कुतश्चित् कारणात् ब्रह्मादि तत्त्वं नित्यं तत्समानः । एतच्च विशेषणमपि हेतुत्वेन द्रष्टव्यम्-अभूतकल्पत्वाद् इति । कथमभूतकल्प इति चेत् ? उच्यते-यथैकस्य अनेकात्मताभयात् नीलादिसुखादिभ्यो व्यतिरिच्यमानशरीरं सर्वविकल्पातीतं केनचिद् ब्रह्मतत्त्वमिष्यते तथा तत एव संवेदनतत्त्वं तथाविधं निरंशं क्षणिकं सौगतेन अभ्युपगन्तव्यम् , तद्वदेव । तच्च न स्वपरव्यवस्थाहेतुः इति न प्रमाणमिति । १०
ननु न मैंया परेण वाऽदृष्टमेवं तदभ्युपगम्यते येनायं दोषः स्यात् , अपि तु यथाप्रतिभासमिति चेत् ; अत्राह-प्रत्यक्ष इत्यादि । प्रत्यक्षं अवग्रहादिधारणापर्यन्तम् , अस्यैव प्रकृतत्वात् स्मृतिश्च अभिज्ञा च, स्वं च परश्च स्वपरौ तौ विषयौ यस्य स तथोक्तः, स चासौ तर्कश्च स च अनुमा च ता आत्मानो यस्याः सा तथोक्ता मतिः स्याद् भवेत् 'प्रमाणम्' इति [१८१क] सम्बन्धः । अनेन एतत् कथयति-यदि यथाप्रतिभासं संवेदनं प्रमाण- १५ मिष्यते; तर्हि यथोक्ता मतिः प्रमाणयितव्या तस्या एकत्र दर्शनादिप्राप्तिपर्यन्तव्यवहारोपयोगित्वेन प्रतिभासनात् । अथ अतिसूक्ष्मपरीक्षया व्यवतिष्ठमानं तद् ब्रह्म न किञ्चिद् व्यस्यात् (व्यवस्येत्) परस्य गत्यन्तराभावात् इति ।
ननु स्वपरशब्देन किमर्थं तर्क एव विशेष्यते नान्यत् प्रत्यक्षादिकम् , तदपि तथाविधमेव जैनस्येति चेत् ; सत्यम् ; यस्तथा नेच्छति तं प्रति तस्य तथाविधप्रसाधनाय तर्को दृष्टान्तीकर्तुं २० तथा विशेष्यते । यथा तर्कः स्वपरविषयः 'ततः साकल्यव्याप्तिं साध्यसाधनयोः परेण इच्छता अभ्युपगम्यते तथा प्रत्यक्षादिकमभ्युपगन्तव्यमिति निराकृतमेतत्-*"नान्योऽनुभाव्यो बुद्ध्याऽस्ति" [प्र० वा० ३।३२७] इत्यादि । कथं तर्कस्तद्विषयः" ? इत्यत्राह-चिन्ता इत्यादि । चिन्ता इति तर्कस्य संज्ञा पूर्वाचार्यप्रसिद्ध्या । चिन्ता तर्कोऽचिन्त्यात्मिका अचिन्त्यः कथमेवं विवे (विधे) यम् इत्यविचार्यः आत्मा स्वभावो यस्याः सा तथोक्ता इयं प्रत्यनुमातृ प्रत्यक्ष- २५ प्रमाणपरिच्छेद्या । कुतः अचिन्त्यात्मिका? इत्यत्राह-कलयति इत्यादि। कलयति अध्यवस्यति यतः । किम् ? अन्यम् अर्थान्तरम् । कुतोऽन्यम् ? इत्याह-विषयात प्रत्यक्षादि
(१) "तस्मान्न परमार्थतः किञ्चिदस्तीत्यस्तु यथा तथा संवृत्या एतावतापि प्रमाणाप्रमाणव्यवस्थितिनं काचित् क्षतिः । अभिप्रेत एव भवत्पक्षोऽस्माकमिति न वस्तुतत्वमतिक्रम्य वर्तितुं शक्यम् ।" वार्तिकाल. पृ० १८६ । (२) संवेदनाद्वैतस्य । (३) प्रमाणादिनिषेधकरणात् । (१) सकलविकल्पातीतम् । (५) अद्वैतवादिना । (६) एकस्य अनेकात्मकताभयात् । (७) अद्वैतवादिना । (८) सौगतेन । (९) अदृष्टम्अप्रामाणिकम् । (१०) मतेः । (११) स्वपरविषयकमेव । (१२) तर्कात् । (१३) “तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥” इति शेषः । (१४) स्वपरविषयः। (१५) उमास्वाम्यादिना तत्त्वार्थसूत्रादौ निर्दिष्टा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org