________________
२२३
सिद्धिविनिश्चयटीकायाम्
[ ३ प्रमाणान्तरसिद्धिः
गोचरात् अन्यं परोक्षमित्यर्थः । क ? इत्यत्राह - अन्यत्र स्वदेशाद् अन्यदेशे, उपलक्षणमेतत् तेन अन्यदा च इति गृह्यते । किमर्थं कलयति ? इत्याह- सिद्धौ निर्णीतौ अन्यस्य अन्यत्र सिद्धिनिमित्तमित्यर्थः । अस्याऽनभ्युपगमे साकल्येन हेतोः साध्येन व्याप्तेरसिद्धेः- “यदवभासते तत् ज्ञानं यथा सुखादि" [११८ख] इत्याद्यनुमानं प्रतिहतप्रसरं भवेत् । न च ५ स्वांशमात्रावलम्बिना * " जडस्य प्रतिभासायोगात्" इत्यादिना विचारेण तत्सिद्धि:, अन्यथा नीलज्ञानात् पीतादिसिद्धिः स्यादित्यलं प्रसङ्गेन ।
अथवा, सविकल्पकप्रत्यक्षपक्षे स्मृतेर्गृहीतग्राहकत्वेऽपि 'न प्रयोजनविशेषात्' इत्यादिना प्रामाण्यं व्यवस्थाप्य संप्रति परपक्षोक्तं तस्यै गृहीतग्राहित्वं निराकुर्वन्नाह - ज्ञानी इत्यादि । ज्ञानी सचेतनो थेन स्वभावेन अतिशेते । किम् ? इत्याह- इतरम् अचेतनं घटादिकम्, येन • १० स्वभावेन ततो भिद्यत इत्यर्थः । ननु स्वग्रहणविमुख्येन अर्थग्रहणात्मना धर्मेण तम् अतिशेते स इति, सोऽपि धर्मेः प्रमाणं स्यादिति चेत्; अत्राह - भवभृतम् इति । च शब्दोऽत्र द्रष्टव्यः, भवभृतं च महेश्वरपोषकं नैयायिकादिकं तत् प्रमाणं स्वपरव्यवसायज्ञानं प्रमाणमित्यर्थः । किमर्थंम् ? इत्याह-समन्ताद् इत्यादि । व्याख्यातमेतत् । अविकल्पानुभवेन मतं ( स तम् ) विज - यते अतः स प्रमाणम्, इत्यत्राह - न पुनः इत्यादि । अभूतकल्पः अभूतोऽजातः खरवि१५ षाणादिः ईषदसिद्धः, अभूतकल्पः अविकल्पोऽनुभवः न प्रमाणम् नार्थपरिच्छेदकः । प्रयोगःअविकल्पोऽनुभवः न कस्यचिद् ग्राहकः, असत्त्वात्, गगनकुसुमवत् इति । अतः कथं तद्गृहीतं किञ्चिद् विज्ञानं गृहीति, (गृह्णाति ) नान्यथा सोऽपि अन्यगृहीतं गृह्णाति इति स्यात् तदन्यवत् । अविकल्पानुभवस्यापि नानुभवः; तदनुभवस्य अप्रमाणत्वे [१८२क] न किञ्चित्प्रमाणं भवेत् । अन्यस्य कस्यचिदनुपलम्भेन असत्त्वाद् इत्यपरः । तं प्रत्याह - प्रत्यक्ष इत्यादि । २० विवृतम्, अस्याः प्रतिभासादिति मन्यते । निर्विकल्पानुभूतविषयत्वात् स्मृतिः अप्रमाणमिति । अत्रैव दूषणान्तरं दर्शयन्नाह - चिन्ता इत्यादि । चिन्ता परकीया इयं गृहीतग्राहिज्ञानं सर्वं प्रमाणम् इत्येवं रूपा [s] चिन्त्यात्मिका [s] चिन्त्यस्वभावा मानत्राणरहितातायाः भर्तृत्राणहीनायाः कुलयोषित इव तद्रूपत्वात् । कुत एतत् ? इत्यत्राह - कलयति इत्यादि । अन्यत्र अन्यस्याः सिद्धौ गृहीतौ, अन्यत्र इति वचनात् 'सूरेर्मनसि काचिद् विवक्षिता सिद्ध इति गम्यते । अन्यत्र इत्यस्य संबन्धिशब्दात् (त्वात् ) ततो विवक्षितसिद्धिविषयाद् अन्यं विषयान्तरम् एकान्तेन कलयति अध्यवस्यति यतः, न चैवमस्ति इति मन्यते । देशादिभेदेन एकत्रार्थे अनेकसिद्धिसंभवात् न च सा प्रमाणं ततोऽप्रवृत्तिप्रसङ्गात् । क्षणिकत्वादर्थस्य नैवं चेत्; न; अत्र प्रमाणाभावात् । पूर्वोत्तरयोः मध्ये तस्यं च तत्र अनुपलब्धिः प्रमाणमिति चेत्; न; अस्या: क्षणिक निरंशपरमाणुतत्त्वैकान्ते सर्वथाऽसिद्धेः युगपत् स्वावयवात्मकघटादितत्त्वसमयेऽपि" नितरां तत्र प्रत्यक्षाद्यात्मिकायाः मतेः प्रमाणत्वात् ।
२५
३०
(१) संवेदनाद्वैतसिद्धिः । (२) पृ० १७५ । ( ३ ) स्मरणस्य । ( ४ ) अचेतनम् । (५) अचेतनम् । (६) निर्विकल्पक गृहीतम् । (७) वस्तु । (८) अकलङ्कदेवस्य । (९) मध्यस्य क्षणस्य । (१०) पूर्वोत्तरयोः । (११) जैनमतेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org