________________
२२३
३।२४]
स्मृत्यादयः परोक्षम् यदि वा, अन्यथा पूर्वपक्षयित्वा इदं वृत्तं व्याख्यातव्यम् । ननु प्रत्यक्षमेव एकं प्रमाणम् तत्किमर्थं तदनन्तरं स्मरणादि प्रमाणत्रयमत्र चिन्त्यते इति चेत् ; अत्राह-ज्ञानी इत्यादि । ज्ञानी परीक्षावान स्वयं [१८२ख] चार्वाको येन अनुमानज्ञानेन अतिशेते । कम् ? इत्याहभवभृतम् भवः संसारः तं बिभर्ति पुष्णाति समर्थयत इति भवभृत् जैनादिः तम्, इतरवत् निषेधकम् स्वशिष्यादिकम् अतिशेते ततो विशेषं लभते । तदनुमानज्ञानं प्रमाणं किमर्थम् ? ५ इत्याह-समन्ताद् इत्यादि । समन्तात् साकल्येन हेयस्य परलोकदेवताविशेषधर्माऽधर्मप्रमाणान्तरादेः उपादेयस्य भूतचतुष्टयपरचैतन्य-मुख्यप्रत्यक्षप्रमाणादेः सिद्धौ निर्णीतिनिमित्तम् ।
ननु प्रत्यक्षानुभवादेव तत्सिद्धिः इति स एव प्रमाणमिति चेत् ; अत्राह-न पुनः इत्यादि। न पुनः नैव अनुभवः प्रत्यक्षज्ञानं प्रमाणं 'हेयोपादेयसिद्धी' इत्यनुवर्तते । किंभूतः ? विकल्पः निर्णयात्मा परापेक्षया इदमुक्तम् । पुनरपि किंभूतः ? इत्याह-भूतकल्प इति । १० भूतानि पृथिव्यादीनि तत्कल्पः तत्सदृशः । एतदुक्तं भवति-यथा पृथिव्यादीनि भूतानि स्वयम् अचेतनानि न हेयोपादेयसिद्धौ प्रमाणम् , अन्यथा ज्ञानकल्पनमनर्थकं स्यात् , तथा अनुभवोऽपि तेंदुपादानतया स्वयमचेतनो न तत्र प्रमाणम् । न खलु अचेतनोपादानं चेतनं युक्तम् , इतरथा अचेतनात् मृत्पिण्डात् चेतनो घटः स्यात् । तथा च प्रयोगः-यदचेतनोपादानं न तत् चेतनं यथा घटादि, अचेतनतोपा (नोपा) दानं च परस्य ज्ञानमिति । ननु तदुपादानत्वेऽपि तस्य॑ चिद्- १५ पतया प्रतीतेः प्रत्यक्षबाधितः पक्षः इति चेत् ; मृत एव विज्ञानात् तस्य तथात्वप्रतीति गस्त्यत्तावदेतत् (रास्तां तावदेतत्) चतुर्थपरिच्छेदे [१८३क] निरूपयिष्यामाणत्वात् । यदि वा भूतानि कल्प्यन्ते व्यवस्थाप्यन्ते विषयीक्रियन्ते येन स भूतकल्प इति व्याख्येयम् । न च तस्य तत्सिद्धौ सामर्थ्य परलोकादेः अतद्विषयत्वात् । नापि यद् यद्विषयं न भवति तत्तस्य निषेधकं व्यवस्थापकं वा अतिप्रसङ्गात् ।
ननु भवतु अनुमानं प्रमाणम् , तथापि प्रकृते क उपयोग इति चेत् ? अत्राह-प्रत्यक्ष इत्यादि । व्याख्यातमेतत् । अत्रायमभिप्राय:-अनुमानं प्रमाणमिच्छता पूर्व लिङ्गलिङ्गिनोः सम्बन्धदर्शनम् , पुनः कचित् प्रायो लिङ्गदर्शनम् , सम्बन्धस्मृतिः, प्रत्यभिज्ञानम् , तर्कः, पुनः अनुमानमित्यभ्युपगन्तव्यम् । अनुमानवञ्च स्वविषयस्मृत्यादिकमपि प्रमाणमिति चेति ।
ननु च प्रत्यक्षेण लिङ्गलिङ्गिनोः साकल्येन सम्बन्धप्रतिपत्तो प्रतिपत्तुः सर्वज्ञत्वम् , तेनैव २५ अनुमानेन प्रतिपत्तौ अन्योऽन्यसंश्रयः, तदन्तरेण अनवस्था, तत्कथं सम्बन्धप्रतिपत्तिः यतोऽनुमानमिति चेत् ; अत्राह-चिन्ता इत्यादि । चिन्ता इत्यन्वर्थसंज्ञाकरणात् तर्कस्य मानसविकल्पत्वोपवर्णनम् , प्रत्यक्षत्वनिषेधे तेनं साकल्यव्याप्तिं प्रतिपद्यमानस्य जैनस्य सर्वज्ञत्वं नाऽनिष्टाय अभ्युपगमात् इति दर्शयति अनेन । तदुक्तम्
(१) चार्वाकः । (२) भूतचतुष्टयात्मकं यत् परचैतन्यम् । (३)अनुभव एव । (१) भूतोपादनतया । (५) चार्वाकस्य । (६) ज्ञानस्य । (४) प्रत्ययस्य । (८) सिद्धे सम्बन्धे अनुमानोत्थानम् , तस्मिश्च सम्बन्धसिद्धिः । (९) अनुमानान्तरेण व्याप्तिप्रतिपत्तौ । (१०) मानसविकल्पेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org