Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरगे मग्नान्-भवनिमग्नानित्यर्थः। चित्रत्वात् अनुस्वाराभावः । त्वं किवि० ? युः। इ:- कामस्तत्र उ:- शङ्करः, दाहकत्वात् सः युः । केन-सुखेन, थो-भीत्राणं (यत्र तत्) यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । त्वं पुनः किंवि० ? न दरिद्रः-नकारस्य निषेधार्थत्वात् अदरिद्रः श्रीमानित्यर्थः। अथवा त्वं दरिद्रः ‘पढमभिक्खायरे त्ति वे'तिवचनात् प्रथमभिक्षाचरत्वादित्यर्थः । हे न-हे पूज्य ! 'नकारो जिनपूज्ययो' रितिविश्वलोचने इत्यपि बोध्यम् । त्वं पुनः किंवि० ? स्वयमात्मना परं-अन्यं, ईश्वरीकर्तुं नमिविनमिवत् ईश्वरः-प्रभुरित्यर्थः।
परिग्रहारम्भमग्नास्तार! ये युः कथं परान् ।
स्व ! यं दरिद्रो नपरमीश्वरीकर्तुमीश्वरः ।।२।। व्याख्या-परि-समन्तात् ‘ग्रहो ग्रहणनिर्बन्धाऽनुग्रहेषु रणोद्यमे' इत्यनेकार्थवचनात् ग्रहोऽनुग्रहो यस्मिन् सः, तभ्य सम्बोधनं हे परिग्रह ! । हे अमन-हे अब्रुडित ! क्व ? ' यस्तु वाते यम' इति सुधाकलशवचनात् यो-मृत्युर्मरणमितियावत् , तस्मिन् ये-मरणे. इत्यर्थः । अस्तं-क्षिप्तं, आरं-अरिसमूहः कर्मरूपो येन सः, तस्य सम्बोधनं हे अस्तार!। 'रमा या मा' इत्यत्र या इत्यस्य ई आ इति नाममालावृत्तिव्याख्यानात् सुष्ठु आ-समवसरणादिरूपा लक्ष्मीर्यस्य स स्वः तस्य सम्बो हे स्व !। ' ई सुवि श्रिया'मितिमहीपवचनात ई इव-भूमिरिव ई, सर्व सहत्वात् । तस्य सम्बो हे इ-हे भूमितुल्य ! त्वं 'प्रतिपक्षः परो रिपुरितिहेमवचनात् परान्-रिपून् 'अदु बन्धन' इतिवचनात् अन्द-बधान। कस्य-आत्मनः, थो-भयत्राणं ( यत्र तत्)
** यं इति इ अं इति पदच्छेदः ।
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 120