________________
प्रवचनसारोद्धारे। सटीके
२० स्थान
कानि | गाथा ३१०.
॥२२४॥
प्र.आ.८
व्रतानि-मूलगुणाः, तेषु निरतिचारः सन् तीर्थकरनामकर्म बध्नातीति क्रियायोगः १२-१३, एतावता पश्च कारणान्युक्तानि, तथा क्षण-लवे तपसि त्यागे वैयावृत्ये च समाधिस्तीर्थकरनामकर्मबन्धकारणम् , तत्र क्षण-लवग्रहणमशेषकालविशेषोपलक्षणम् , क्षण लवादिषु कालविशेषेषु निरन्तरं संवेगभावनातो ध्यानासेवनतश्च समाधिः क्षण-लवसमाधिः १४, तथा तपसि-बाह्या-उभ्यन्तरभेदभिन्ने यथाशक्ति निरन्तरं प्रवृत्तिस्तपःसमाधिः १५, त्यागो द्विधा-द्रव्यत्यागो भावत्यागश्च, द्रव्यत्यागो नाम आहारोपधिशय्यादिनामप्रायोग्याणां परित्यागः, प्रायोग्याणां च यतिजनेभ्यो दानम् , भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां च यनिजनेभ्यो वितरणम् , एतस्मिन् द्विविधेऽपि त्याग सूत्रानतिक्रमेण यथाशक्ति निरन्तरं प्रवृत्तिम्त्यागममाधिः १६, वैयावृत्त्यं दशविधम् , तद्यथा-आचार्ययावृत्यम् १, उपाध्याय वैयावृत्यम् २, स्थविरवैयावृत्यम् ३, तपस्विवैयावृत्त्यम् ४, ग्लानवैयावृत्यम् ५, शैक्षकवैयावृश्यम् ६, साधर्मिकवैयाबृत्यम् ७, कुलवैयावृत्त्यम् ८, गणवयाच्यम् ६, सङ्घयावृत्यम् १० चेति, एकैकं त्रयोदशविधम् , तद्यथा-भक्तदानम् १, पानदानम् २, आसनप्रदानम् ३, उपकरणप्रन्युपेक्षा ४, पादप्रमार्जनम् ५, षखप्रदानम् ६, भेषजप्रदानम् ७, अध्वनि साहाय्यम् ८, दुष्ट-स्तेनादिभ्यो रक्षणम् है, वसतो प्रविशता दण्डकग्रहणम् १०, कायिकामात्रकसमर्पणम् ११, संज्ञामात्रकसमर्पणम् १२, श्लेष्ममात्रकसमर्पणम् १३ चेति, एतेषु वैयावृत्त्यभेदेषु यथाशक्ति निरन्तरं प्रवृत्नियावृत्त्यसमाधिः १७, अथ तृतीयगाथाव्याख्या-अपूर्वस्य ज्ञानस्य निरन्तरं ग्रहणमपूर्वज्ञानग्रहणम् अष्टादशं तीर्थकरनामकर्मबन्धकारणम् १८, एकोनविंशतितमं श्रुतभक्तिः-श्रुतविषयं बहुमानम् १९, विंशतितम प्रवचनप्रभावना यथाशक्ति
silbaniasisaswwwduadiminister
॥२२४॥
anistan