________________
.:
इति गाथाचतुष्टयमणिताः मूरिंगुणाः षट्त्रिंशदयन्ते-तत्र युतशब्दः प्रत्येकमभिसम्बध्यते, देशयुतः । प्रवचन- कुलयुत इत्यादि, 'तत्र यो मध्यदेशे जातो यो वाऽर्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशमणितं
| हरिगुणाः सारोद्धारे, जानाति ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानम् १, कुलं-पैतृकं तथा च लोके
गाथा सटीके | व्यवहारः-ईश्याकुकुलजोऽयमित्यादि तेन युतः प्रतिपन्नार्थनिर्वाहको भवत्ति २, जातिः-मातृकी, तया युतो .. विनयादिगुणधान भवति ३. रूपयुतो लोकानां गुणविषयबहुमान भाग जायते, 'यत्राकृतिस्तत्र गुणा वस
५४८ ॥३७८ न्ति' इति प्रवादात् , कुरूपस्य अनादेयत्वादिप्रसङ्गाच्च ४, संहननेन-विशिष्टशारीरसामर्थ्यरूपेण युतो व्या
.प्र. आ. ख्यायां न श्राम्यति ५, धृतिः-विशिष्टमानसावष्टम्भलक्षणा तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति ६,
१३ 'अनाशंसी'-श्रोतभ्यो वस्त्राद्यनाकाङ्क्षी ७, 'अविकथन'-नातिबहुभाषी, यद्वा स्वल्पेऽपि केनचिदपराद्ध पुनः पुनस्तदुन्कीतनं विकथनं तद्रहितः ८, 'अमायी-शाट्यरहितःह, स्थिरा-अतिशयेन निरन्तराभ्यासतः स्थैर्यमापना अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति १०, 'गृहीतवाक्यः'-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति ११, 'जितपर्षत' न महत्यामपि पर्पदि क्षोभमुपयाति १२,'जितनिद्रः'अल्पनिद्रः, स हि रात्रौ सूत्रमर्थ वा परिभावयन् न निद्या बाध्यते १३, मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः १४, देशं कालं च भावं जानातीति देश-कालभावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽमिप्रायान् ज्ञात्वा तान्
१ इत्त आरभ्य द्वार तुल्यप्राय बृहत्कल्पटीका मलयगिरिसूरिविहिता पु.४५ तः ॥ २ लोकव्यवहार-मु.॥ । ॥३७॥ ३ मध्यस्थः सत्वेपु समचित्ता-सं।
..
.'
-.-
2
-tion