Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
।।६३२॥
ऽनटन्- भिक्षामगृह्णन् ऋजुगत्या तथैव वलति-निवर्तते । द्वितीयायां गत्वाप्रत्यागतिकायां भ्रमन्- भिक्ष गृह्णन् समस्थितगृह्पङ्क्तौ प्रविश्य द्वितीयपङ्क्तौ भिक्षमाण एव निःसरति प्रत्यागच्छति । कोऽर्थः ?- 'उपाश्रयानिर्गतः सन्नेकस्यां गृहपङ्क्तौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्ती भिसा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः । अन्ये तु ज्वीविपर्ययेण areerगतिक व्याख्यानयन्तीति ||७४६ ॥
तथा वामाद - वामगृहादक्षिणगृहे दक्षिणगृहाच्च वामगृहे यस्यां भिक्षते सा गोमूत्रिका | गोः-वलीवस्त्रणं गोमूत्र ww तद्वद्या सा तथा । इयं हि परस्पराभिमुखगृह पङ्क्त्योरेकस्यां गत्वा पुनरि तरस्यां पुनस्तस्य पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया । तथा अर्दवितर्दा अनियता भिक्षा पतङ्गवाधिः पतङ्गः - शलभस्तस्य वीथिका - मार्गस्तद्वद्या सा तथा । पतङ्गगतिर्हि अनियतक्रमा भवति एवं या अनाश्रितक्रमासा पतङ्गवीथिकेति ।
1
तथा पेटा - वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम् सा च चतुरस्रा भवति, ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्या ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतवपि दि समश्रेण्या भिक्षु भ्रमति सा पेटेति भण्यते । तथा दिग्द्रय सम्बद्ध योगॄहश्रेण्योर्भिक्षणेऽर्धपेटेति । पेटार्धसमान संस्थान गृहश्रेणिभिक्षणेऽपेटेति भावः ॥ ७४८ ||
तथा शम्बूकः शङ्खस्तद्वत् शङ्खश्रमिवदित्यर्थः या वीथिः सा शम्बूका । इयं च द्वेषा - अभ्यन्तर१ तुलना स्थानाङ्गवृत्तिः सू. ५१४, प ३६६ ॥ २ प्रत्यागतं इति स्थानाङ्गवृत्तौ [१, ३६६ ] पाठः ॥ ३ तुलना-'संबुक्का
६७ द्व
भिक्षाच
टकं
गाथा
७४५७४९
प्र. आ. २१७
॥३३२

Page Navigation
1 ... 674 675 676 677 678