Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
॥५७९॥
करणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि सज्वलनानामन्तरकरणादुपरितनस्थितौ करोति ।
अथ 'किमिदं स्पर्धकमिति ?, उच्यते, इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः | ८९ द्वारे कर्मतया गृहणाति, तत्र चेककस्मिन् स्कन्धे यः सर्वजघन्यरपः परमाणुस्तस्यापि रसः केवलिप्रजया छिद्यमानः क्षपकसर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति । अपरस्तानप्येकाधिकान् , अन्यस्तु द्वधधिकान् , एव
|श्रेणिः मेकोत्तग्यावृद्धया तावन्नेयं यावदन्यः परमाणम्भव्यानन्तगुणान सिद्धानन्तभागेनाधिकान् रसभागान
| गाथा प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते । अन्येषां वेकाधिकरसभागयुक्तानां समुदायो द्वितीया वर्गणा, अपरेषा तु द्वयधिकरसभागयुक्तानां समुदाय- | ६९९ स्तृतीया वर्गणा, एवमनया दिशा एकैकरसभागवृद्धानामनां समुदायरूपा वर्गणाः सिद्धानन्तभागकल्पा / प्र. आ. अभव्यानन्तगुणा वाच्याः । एतासां च समुदायः स्पर्धकमित्युच्यते । स्पर्धन्त इवोत्तरोत्तरवृद्धया परमाणुवर्गणा अत्रेतिकृत्वा । इत ऊर्वमेकोत्तरया निरन्तश्या वृद्ध या प्रवर्धमानो रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततः प्रभृति द्वितीयं स्पर्धकमारभ्यते, एवमेव च तृतीयम् , एवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि' एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवंशाद
WARNAMEANING
१ तुलना-सप्ततिकाटीका गाथा ६५, पत्र २०४० तः ।। २ यावदन्य. मु. । यावदन्यः परमाणुरमध्यानन्तगुणेनपो.वि । यावदन्यः (न्त्यः) इति सप्ततिकावृत्तौ (५.२०४६) पाठः॥३तोऽग्रे-"एतानि च पूर्व कृतस्वात् पूर्वस्पर्ध काम्यभिधीयन्ते तत" इत्यधिकः पाठः सप्ततिकाटीकायां (प.२०४ ३) पश्यते ।।
०५७

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678