Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे
सटीके
||६२२||
द्विधा भवति - 'उपकरणविषया, भक्तपानविषया च । पुनरेकैका द्विधा - सबाह्याऽभ्यन्तरा-बाह्याभ्यन्तरभेदयुक्ता, बाह्या अभ्यन्तरा चेत्यर्थः ।
तत्र उपकरfire at संगोदना-यथा कमिन्साधुः कुत्रापि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनरन्यत्र विभूषार्थं तदुचितं पटीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्रावृणोतीति । अभ्यन्तरा वसती निर्मलं चोलपट्टादिकं परिधाय विभूषानिमित्तं तदनुरूप निर्मलामेव नर्मादिप परिदधातोति ।
तथा भिक्षार्थं हिण्डमानः सन् क्षीरादिकमनुकूलद्रव्यैः खण्डादिभिः सह रसगृद्धया रसविशेषोत्पादनाय बहिरेव संयोजयतीत्येषा बाह्या भक्तपानविषया संयोजना । अभ्यन्तरा पुनर्यद्वस्तावागत्य भोजनवेलायां संयोजयतीति । सा च विधा - पात्रकविषया, कवलविषया, मुखविषया च । तत्र भोजनसमये यत्पायसादि येन खण्डादिना रोचते तद्रसगृद्वया तेनैव सकस्मिन्नेव पात्रे संयोज्य स्थापयतीति प्रथमा । यदा तु हस्तगतमेव कवलतया उत्पाटितं सुकुमारिकादिकं खण्डादिना सह संयोजयति तदा द्वितीया । यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति तदा तृतीयेति ।
अपवादचात्र एकैकं साधुसङ्घाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनानन्तरं यदि कथमपि farerrari भवति तदा तदुरितघृतादिनिर्गमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय । उद्धरित हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तुतत्वात् । न च परिष्ठापन
१ तुलना - पञ्चाशवृत्तिः १३३४८ ॥
२ तुलना-सटीका पिण्डनियुक्ति: ६३० विण्डविशुद्धिवृत्तिः ९४ ॥ ३ तुलना-बटीका पिण्डनियुक्तिः ६४०-१ ।।
१५ द्वारे ग्रासपणा
पंचक
गाथा
७३४
७३८
प्र. आ.
२१३
॥६२२॥

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678