Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
॥६२४॥
इदानीपजाटोषणा- "
स त्यादि उत्तरार्धम् , रागेण-अन्नस्य तदातुर्वा प्रसारूपेणास्वादयन्-अभ्यवहरन्- प्रासुकमप्याहारं करोति स्वचारित्रं साङ्गारम् , चरणेन्धनस्याङ्गारभूतत्वात् । अयमत्र भावार्थ:-इह द्विधा अङ्गारा:-द्रव्यतो भावतश्च । तत्र द्रव्यतः कृशानुदग्धाः खदिरादिवनस्पतिविशेषाः, भावतो रागाग्निना निर्दग्धं चरणेन्धम् , ततो यथा दग्धमिन्धनं धूमे गते सति अङ्गार इत्युच्यते, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गारक इत्युच्यते । ततश्च भोजनगतविशिष्टगन्धरसास्वादयशेन सञ्जाततद्विषयमूर्छस्य सतोऽहो सुमृष्टमहो । सुसंभृतमहो ! स्निग्धं सुपक्वं सुरसं चेत्येवं प्रशंसातः सहाङ्गारेण यद्वर्तते तत्साङ्गारमिति ॥७३॥
इदानीं धृमदोपमाह-'भुजंतो' इत्यादि गाथापूर्वार्धम् , द्वेषेण-अन्नस्य तदायकस्य वा निन्दात्मकेन अमनोज्ञम्-अमधुरमाहारं भुञ्जानवरणं-चारित्रं सधृमकं करोति । निन्दात्मककलुषभावस्वरूपधूमसम्मि. श्रत्वात् । अत्राप्ययं भावार्थ:- इह द्विविधो धृमस्तद्यथा-द्रव्यतो मावतश्च, तत्र द्रव्यतोऽर्धदग्धानां काष्टानां सम्बन्धी, भावतो उपाग्निना दह्यमानस्य चरणेन्धनस्य सम्बन्धी कलुषमावो निन्दात्मकः । ततो यथाऽङ्गा. रत्वमप्राप्तं ज्वलदिन्धनं सचममुच्यते । एवं द्वषाग्निना दह्यमानं चरणेन्धनमपि सधूमम् , ततश्च भोजनगतविरूपरसगन्धास्वादतो जाततद्विपयन्यलीकचित्तस्य सतोऽहो विरूपं क्वथितमपक्वमसंस्कृतमलवणं चेति निन्दावशा मेन मह यद्वर्तते तत्सधूमं चारित्रमिति ॥
१ रागेण-सं. ॥ २ तुलना-पिण्डनियुक्तिटीका ६५५ तः ।। ३ तुलना-पिण्डनियुक्तिटीका ६५५ ॥
प्रासैषण पंचकं गाथा ७३४७३८ प्र.आ. २१४
॥६२४

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678