Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे
सटीके
६६ द्वार (पिण्डपानपणा गाथा ७३६.
॥६२९॥
७४४
अर्थताः स्वयमेव व्याचष्टे-'तमी'त्यादिगाथाचतुष्टयम् , 'तंमि' ति प्राकृतस्वात्तासु भिक्षासु मध्ये संसृष्टा हस्त-मात्रकाम्यां भवति । कोऽर्थः १-संसृष्टेन-तक्र-तीमनादिना खरण्टितेन इस्तेन संसृष्टेनैव च मात्रकेण-करोटिकादिना गृहतः साधोः संसृष्टा नाम भिक्षा भवति । इयं च द्वितीयाऽपि मूलगायोक्तक्रमापेक्षया प्रथमा । अत्र च संसृष्टा-संसृष्ट-सावशेष-निरक्शेषद्रव्यरष्टौ भङ्गाः । तेषु चाष्टमी भङ्गः संसृष्टो हस्त: संसृष्टं मात्रं मावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते । शेषास्तु भङ्गा गच्छान्तर्गताना सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति । तथा तद्विपरीता-संसृष्टायभिक्षाविपरीता द्वितीया असंसष्टा नाम भिक्षा भवति । असंसृष्टेन हस्तेन असंमृष्टेन च मात्रकेण भिक्षा गृह्णतः साधोरसंसृष्टेत्यर्थः । अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेष वा स्यानिरवशेष वा । तत्र निरवशेषे पश्चात्कर्मदोषः, तथापि गच्छस्य बालाधाकुलत्वात्तनिषेधो नास्ति अत एव सूत्रे तश्चिन्ता न कृता ॥७४०॥
तथा निजयोगेन-आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र स्थाल्यादावुद्धृतम् , तच साधोगृहणत उद्धता तृतीया भिक्षा भवति । तथा सा अल्पलेपिका नाम चतुर्थी भिक्षा या निर्लेपा वल्ल-चणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः । अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः । यद्वाऽल्पः-स्तोको लेपः पश्चात्कर्मादिजनितः कर्मसम्बन्धो वा यस्यां सा अम्पलेपा । उक्तं च आचाराने
'अस्सि खलु पडिम्गहियंसि अप्पे पच्छाकम्मे अप्पे पजवजाए ति । [श्रुतस्कन्ध २०१११]
अत्र च-पृथुकादिके गृहीतेऽप्यल्प पश्चात्कर्मादि तथा अल्पं पर्यायजातम् । अल्पं तुषादि त्यजनीयमित्यर्थः ७४१॥
प्र.आ. २१६
momentities

Page Navigation
1 ... 671 672 673 674 675 676 677 678