Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
॥६२६॥
"भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणमि परंमि य तो वज्जे पीडओवि ॥१॥' पष्टं पुनरिदं कारणं यदुत 'धर्मचिन्तायै' धर्मचिन्ता - धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा ग्रन्थपरावर्तनचिन्तनवाचनादिरूपा । इयं ह्युभयरूपाऽपि बुभुक्षाऽऽकुलितचेतसो न स्यादार्त्तध्यानसम्भवादिति । इह यद्यपि वेदनोपशमादीनां शाब्द्या वृत्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः, तथापि तैर्विना तन्निषेधसूचनादाय वृच्या कारणत्वमेवैषामुपदर्शितं भवति । अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम् ||७३७|| अातङ्कादीनि पडेवाभोजनकारणान्याह - 'आयंके' गाहा, आतङ्के ज्वरादी रोगे समुत्पन्ने सति न भुञ्जीत, उपवासान कुर्वतो हि प्रायेण ज्वरादयस्त्रुट्यन्ति । उक्तं च
"बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १ ॥" थोपसर्गे देव मनुष्य तिर्यक्कृते सञ्जाते सति तितिक्षया हेतुभूतया उपसर्गसहनार्थमित्यर्थः । उपसर्गश्च अनुकूल-प्रतिकूलभेदाद् द्विविधः । तत्र माता- पितृ-कलत्रादिस्वजनकृतोऽनुकूलः, ते हि स्नेहादिना प्रव्रज्यामोचनार्थं कदाचिदुपतिष्ठन्ते तत्रोपसर्गोऽयमिति मत्वा नाश्नीयात् । यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तनिश्चयावगमनान्मरणादिभयाद्वा मुञ्चन्तीति । प्रतिकूलोपसर्गश्च कुपितराजादिकृतः, तत्रापि न भुञ्जीत, विहितोपवासं हि साधु समीक्ष्य राजादयोऽपि प्रायेण सञ्जातदया मुञ्चन्तीति । तथा ब्रह्मचर्यगुप्तिपु-ब्रह्मचर्यप्तिनिमितं मैथुनतरक्षणार्थमित्यर्थः । उपवासान् हि विदधतः कामः कामं दूरमपक्रामति, यदुक्तम्'विषया विनिवर्तन्ते, निराहारस्य देहिनः ।' [ ] इति ।
मावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिन्नपि च ततो वर्जयेत् पीडामुभयमोरपि ॥
९५ द्वारे प्रापणा
पंचर्क
गाथा
७३४
७३८
प्र. आ.
२१५
॥६२६॥

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678