Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे सटीके
।।६१६।।
स द्विधा - उपशान्तमोहः क्षीणमोहन | सूत्रे च 'वर्तमानसामीप्ये वर्तमानवदा' इति न्यायादतीत्तका - लाभिधानेऽपि 'उवसामगो य खत्रगो' त्ति वार्तमानिको वुण्प्रत्ययः, उक्तं च
"सो उवसंतकसाओ खीणकसाओ व" [. ] त्ति ।
तत्र उपशान्तः - उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो- मोहनीयं कर्म येन स उपशान्तमोहः । तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्म सम्परायावस्थायाँ सज्ज्वलनलोभमपि निःशेषं क्षपयित्वा सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः । स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा- प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थक्षरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथा सूक्ष्मनिर्ग्रन्थश्चेति । तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिर्ग्रन्थः २, पूर्वानुपूर्व्या व्यपदिश्यते, तथा रमेअन्तिम समये वर्तमानथरमसमय निर्ग्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिर्ग्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एषामिति ॥ ७२६॥
अर्थते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्या एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज'. गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां क्षीणमोहानाम्, उपशामकानाम् उपशान्तमोहानां पुनश्चतुष्पश्चाशत् । इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्च एको वा द्वौ बा यो वा प्राप्यन्ते । अयमभिप्रायः - क्षीण मोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, चपकश्रेणेरुत्कर्षतः
६३ द्वा
निर्ग्रन्थ
पंचक
गाथा
७१९७३०
प्र.आ.
२११
॥६१६

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678