Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
dadimmindime
प्रवचनसारोद्वारे सटीके
९३ द्वा निग्रन्धपंचक्र गाथा
॥६१५॥
७१९
अथ कुशीलमाह-'आसेवणा' गाहा, 'मूलोत्तरगुणविराधनात् सज्वलनकषायोदयाद्वा कुत्सितं शील-चारित्रं यस्य स कुशीलः । स च द्विधा-आसेवनाकुशीला कषायकुशीलश्च । आसेवना-संयमस्य विपरीताऽऽराधना तया कुशील आसेबनाकशीलः । कषायै:-सज्वलनक्रोधाद्युदयलक्षणैः कुशीलः कपायकुशीलः । द्विविधोऽपि कुशीलः पञ्चविधो-ज्ञान-दर्शन-चरण-तपो-यथावक्ष्मभेदात् । अयमर्थ:-प्रतिसेवनाकुशीलः पञ्चविधी झान-दर्शन चारित्र-तपःप्रतिसेवकः सूक्ष्मप्रतिसेवकश्च । तत्र ज्ञानदर्शन-चारित्रतपास्युपजीवन तत्प्रतिसेवक उच्यते । 'अन्ये तु तपास्थाने लिग पठन्ति, एष एव शोमनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कपायकुशीलोऽपि पश्चविधो-ज्ञान-दर्शन-चारित्र-तपाकषायकुशीला सूक्ष्मकपायकशीलश्च तत्र ज्ञान-दर्शन-तपामि सज्वलनक्रोधकपायाधुपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तकपायकुशीलः उच्यते । कपायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकपायकुशीलः । मनसा तु क्रोधादीन कुर्वन् सक्षमकषाय कुशीलः । अथवा सज्वलनक्रोधादिकषायाविष्ट एव ज्ञान-दर्शन-चारित्र. तपसि यो विराधयति-अतीचारमलिनानि करोति स ज्ञानादिकपायकुशीलः । सूक्ष्मपायकुशीलस्तु तथैवेति ॥७२॥ ___ अथ निग्रन्थमाह--"उवसामगो य' गाहा, "निर्गतो मोहनीयकर्मलक्षणात् ग्रन्थादिति निग्रन्थः । १ तुलना-परूचनिन्धी प्र.२२-२८, तत्वार्थ सिद्ध. वृत्तिः ( 1 ४८), स्थानाङ्गवृत्तिः (प. ३३६त:)| ३ तुलना-पननि. प्र. २८ । स्थानावृत्तौ (प. ३३७ A) हान-पर्शन-चारित्र-लिङ्गानि-इति पाठः ।। ३विशेषार्थ द्रष्टया स्थानावृत्तिः प. ३३७ ।।। ४ तुलना-पञ्चनि, प्र. २१-३१, स्थानावृत्तिः,३३६, धर्मसं वृत्तिः मा.२१५.१५३ ॥
७३० प्र. आ.

Page Navigation
1 ... 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678