SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ।।६१६।। स द्विधा - उपशान्तमोहः क्षीणमोहन | सूत्रे च 'वर्तमानसामीप्ये वर्तमानवदा' इति न्यायादतीत्तका - लाभिधानेऽपि 'उवसामगो य खत्रगो' त्ति वार्तमानिको वुण्प्रत्ययः, उक्तं च "सो उवसंतकसाओ खीणकसाओ व" [. ] त्ति । तत्र उपशान्तः - उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो- मोहनीयं कर्म येन स उपशान्तमोहः । तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्म सम्परायावस्थायाँ सज्ज्वलनलोभमपि निःशेषं क्षपयित्वा सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः । स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा- प्रथमसमयनिर्ग्रन्थोऽप्रथमसमयनिर्ग्रन्थक्षरमसमयनिर्ग्रन्थोऽचरमसमयनिर्ग्रन्थो यथा सूक्ष्मनिर्ग्रन्थश्चेति । तत्रान्तर्मुहूर्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमये निर्ग्रन्थत्वं प्रतिपद्यमानः प्रथमसमयनिर्ग्रन्थः १, अन्यसमयेषु च वर्तमानोऽप्रथमसमयनिर्ग्रन्थः २, पूर्वानुपूर्व्या व्यपदिश्यते, तथा रमेअन्तिम समये वर्तमानथरमसमय निर्ग्रन्थः ३ शेषेषु पुनर्वर्तमानोऽचरमसमयनिर्ग्रन्थः पश्चानुपूर्व्या निर्दिश्यते, यथासूक्ष्मनिर्ग्रन्थः पुनः सामान्येन प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः पञ्चम इति विवक्षया भेद एषामिति ॥ ७२६॥ अर्थते उपशान्तमोहाः क्षीणमोहाश्च निर्ग्रन्या एकस्मिन् समये यावन्तः प्राप्यन्ते तदाह-'पाविज'. गाहा, एकस्मिन् समये प्रवेशमङ्गीकृत्य प्राप्यतेऽष्टोत्तरशतं क्षपकाणां क्षीणमोहानाम्, उपशामकानाम् उपशान्तमोहानां पुनश्चतुष्पश्चाशत् । इदं च उत्कर्षतः, जघन्येन तु क्षीणमोहा उपशान्तमोहाश्च एको वा द्वौ बा यो वा प्राप्यन्ते । अयमभिप्रायः - क्षीण मोहास्तावत्कदाचिद्भवन्ति कदाचिन्न भवन्ति, चपकश्रेणेरुत्कर्षतः ६३ द्वा निर्ग्रन्थ पंचक गाथा ७१९७३० प्र.आ. २११ ॥६१६
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy