Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
उपशमश्रेणिः गाथा
॥५८७
स्थितिबन्धेऽपि च 'पूर्णे पूर्ण सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासख्येयभागहीनं करोति, पूर्णे चान्तमुहूते क्रमेण यथाप्रवृत्त करणापूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येक मान्तमौहर्तिकानि त्रीणि करणानि करोति । चतुर्थी तूपशान्ताद्धाम् , करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया।
अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादात्रलिकामानं मुक्त्वाऽन्तमुहर्तमानमन्तस्करणमन्तमुहूर्तेन करोति । अन्तस्करणदलिकं चोत्कीर्यमाणं वक्ष्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिक स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते । तद्यथाप्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसंख्यातगुणम् , तृतीयसमयेऽपि ततोऽसङ्ख्येयगुणम् , यावदन्तमुहूतेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहरमिषिच्याभिषिक्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिल्य परिपिच्या निवृत्तिकरणरूपद्रुघण निःकुट्टितः सक्रमणोदयोदोरणानिधत्तनिकाचनाकरणानामयोग्यो भवति । "अन्ये तु अनन्तानुबन्धिनामुपशमना न मन्यन्ते, किन्तु विसंयोजना क्षपणाम् , सा च प्रागेवोक्ता । "
सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तमुहूर्तेन
RACHAROLanduismat
७०८ प्र.आ. २०१
•
१ पूर्ण सत्यम्यं-मु.॥२०मान्तमुहूर्तिकानि-मु.।। ३ तुलना-सामतिकाटीका पृ. २०० तः॥४०निवृत्तिमु.॥ .. ५०निकुट्टितः-मु.॥ ६ कर्मप्रकृतौ[उपशमनाया०३१] पश्चस हवृत्ती[उपशमना०मा०३४] अपि उपशमनान दृश्यते॥
॥५८७॥

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678