SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके उपशमश्रेणिः गाथा ॥५८७ स्थितिबन्धेऽपि च 'पूर्णे पूर्ण सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासख्येयभागहीनं करोति, पूर्णे चान्तमुहूते क्रमेण यथाप्रवृत्त करणापूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येक मान्तमौहर्तिकानि त्रीणि करणानि करोति । चतुर्थी तूपशान्ताद्धाम् , करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया। अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादात्रलिकामानं मुक्त्वाऽन्तमुहर्तमानमन्तस्करणमन्तमुहूर्तेन करोति । अन्तस्करणदलिकं चोत्कीर्यमाणं वक्ष्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिक स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते । तद्यथाप्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसंख्यातगुणम् , तृतीयसमयेऽपि ततोऽसङ्ख्येयगुणम् , यावदन्तमुहूतेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम यथा रेणुनिकरः सलिलबिन्दुनिवहरमिषिच्याभिषिक्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति, तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिल्य परिपिच्या निवृत्तिकरणरूपद्रुघण निःकुट्टितः सक्रमणोदयोदोरणानिधत्तनिकाचनाकरणानामयोग्यो भवति । "अन्ये तु अनन्तानुबन्धिनामुपशमना न मन्यन्ते, किन्तु विसंयोजना क्षपणाम् , सा च प्रागेवोक्ता । " सम्प्रति दर्शनत्रिकस्योपशमना भण्यते-इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तमुहूर्तेन RACHAROLanduismat ७०८ प्र.आ. २०१ • १ पूर्ण सत्यम्यं-मु.॥२०मान्तमुहूर्तिकानि-मु.।। ३ तुलना-सामतिकाटीका पृ. २०० तः॥४०निवृत्तिमु.॥ .. ५०निकुट्टितः-मु.॥ ६ कर्मप्रकृतौ[उपशमनाया०३१] पश्चस हवृत्ती[उपशमना०मा०३४] अपि उपशमनान दृश्यते॥ ॥५८७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy