________________
प्रवचन
सटीके
॥१८८||
- दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रय निर्वर्तनेन विशुद्धा वर्धमानोऽ' निवृत्तिकरणाद्वाया सङ्ख्ये येषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तमुहूर्तमान स्थासारोद्धारे पयति, मिथ्यात्वमिश्रयोश्श्रावलिकामात्रम्, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिध्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथम स्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति । उपरितनदलिकस्य चोपशमना त्रयाणामपि मिध्यात्वादोनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया । एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्र मोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति । केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरण गुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्ध ततोऽनन्तरसमयेऽनिवृत्चिकरणे प्रविशति, अनिवृत्तिकरणाद्वायाश्च सख्येयेषु भागेषु गतेषु दर्शन सप्तकवर्जितानामेकविंशते महनीयप्रकृतीनामन्तरकरणं करोति । तत्र यस्य वेदस्य सज्ज्वलनस्य च उदयोऽस्ति तयोः स्वोदयकालमाकानां प्रथमस्थिति करोति, शेषाणां वेकादशकपायाणामष्टानां च नोकषायाणामावलिकामात्रम्, वेदत्रिकसज्ज्वलन चतुष्कोदयकालमानम् अन्तर ेकरणगतदलिकप्रक्षेपस्वरूपं च ग्रन्थविस्तरमयान लिख्यते ।
१० निवृत्ति० - ॥ २ असख्येयेषु मु. ॥
३ अन्तरकरणगत दलिकप्रक्षेपस्वरूपदर्शनार्थं द्रष्टव्या सप्ततिकाटीका प्र. २०२४ः ॥
६०. द्वारा
उपशम
श्रेणिः
गाथा
७०००
७०८
प्र.आ. २०१
॥५६८॥