________________
प्रवचनसारोद्वारे सटीके
७००.
अन्तरकरणं च कृत्या ततो नपुसकवेदमन्तम हुर्तेनोपशमयति । तथाहि-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्ख्येयगुणम् , एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति यावच्चरमसमयः।
1०द्वारे परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसङख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये
उपशमतूपशम्यमानं दलिकं परप्रकृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुसकवेद स्त्रीवेदं प्रागुक्तविधिनाऽन्तमुहर्तेनोपशमयति । ततोऽन्तम हर्तेन हास्यादिषट्कम् , तस्मिंश्चोपशान्ते
गाथा तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाच्यवच्छेदः, ततः समयोनालिकाद्विकेन सकलमपि वेदमुपशमयति । ततो युगपदन्तमुहर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधी. तदुपशान्तौ च तत्समयमेव सञ्च
७०८ लनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः ममयोनाबलिकाद्विकेन सञ्चलनक्रोधमुपशमयति । ततो
प्र.आ. अन्तर्मुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानो युगपदुपशमयति, तदुपशान्ती च तत्समयमेव सज्वलन- २०२ मानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्वलनमानसुपशमयति । ततो युगपदन्तमुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः ।
लोमवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च । तत्रावेदधयोयोविभागयोर्वर्तमानः सज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थिति करोति यते च । अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एवत्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानाचरणसवलनरूपान् युगपदुपशमयितुमारभते, विशुद्धया वर्धमानवापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च
| ॥५८६॥