________________
प्रवचन
६. द्वारे उपशम.
सारोद्धार
सटीक
श्रेणिः
॥५६॥
प्रागेवोक्तः, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गताय किट्टिकरणाद्धायां प्रविशति । तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धके. भ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । 'किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभाचुपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनलोभवन्धव्यवच्छेदो बादरसज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसम्परायो भवति । तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायाधातुल्यां करोति चेदयते च । सूक्ष्मसम्परायाद्धा चान्तमुहूर्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनाबलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सज्वलनलोभ उपशान्तो भवति । ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति । स च जघन्येनै कसमयमुत्कर्षतोऽन्तमुहूर्त यावल्लभ्यते । तत ऊर्व नियमादसौ प्रतिपतति ।
प्रतिपातश्च द्विधा-भवक्षयेण अद्धाशयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्भाक्षय उपशान्ताद्धाय समाप्तायाम् । अद्धाश्रयेण च प्रतिपतन यथैवारूढस्तथैव प्रतिपतति । यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्भाशयेण आरभ्यन्ते इति यावत् , प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् , कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि ।...
यः पुनर्भवक्षयेण प्रतिपतति स नियमाद'नुत्तरविमानवासिषूत्पद्यते, उत्पन्नश्च प्रथमसमय एवं १ तुलना-सप्ततिकाटीका गा. ६५, पृ.२०५ तः॥२ कर्मप्रकृतौ तु उवसमसम्मतद्धा अतो भाउक्खया धुवं देखो। तिस आजगेसु बद्धसु जेण सेदि न भागहर" (उपशमना गा.६३) । इति केवला देवगतिरेव दर्शिता, पश्चसपाहे [उपशमन' गा.१५ अपि एवमेव । द्रष्टन्यं तत्त्वार्थमाष्यम् (BR)|
प्र. आ. २०२
":.