________________
प्रवचन -
सारोद्वारे
सटीके
॥५११॥
नादीनि करणानि प्रवर्तयतीत्येष विशेषः । उत्कर्षतश्चैकस्मिन् भये द्वौ वारावुपशमश्रेणि
प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे पकश्रेण्यभावः यः पुनरेकवारं प्रतिपद्यते तस्य पक श्रेणिर्भवेदपीत्येष कार्यग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यते, तदुक्तम्-
1
"मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः क्षयो मोहस्य तत्र न ||" इति । 'ननूपशमश्रेणिमविस्तादय एवारभन्ते, ते च यथासंभवं सम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं तेषामुपशमो भण्यते १ तदसत् पूर्वं हि तेष क्षयोपशम एवासीत्, नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोविशेषः १ येनैवमुच्यते- पूर्वं क्षयोपशम आसीनोपशम इति, सत्यम्, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः ।
,
?
ननु यदि सत्यपि क्षयोपशमे मिध्यात्वानन्तानुवन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्टष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात् मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि - मतिज्ञानावरणादिकं
१ तुलना आप मलयवृत्तिः गा० ११६ ५ १२४A तः ।।
९० द्वारे
उपशम
श्रेणिः
गाथा
७००
७०८
प्र. आ.
२०२
॥५९१॥