________________
प्रवचन
सारोद्धारे
सटीके
॥५९२॥
,
कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात् अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वायार्थगुणविवच प्रभवति, ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदृदयस्यातीव मन्दानुभावत्वादिति ।
अथ गाथारार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण' ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिध्यात्वमिसम्यक्त्वस्वरूपं पुञ्जयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सा लक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यैौ एकान्तरितौ-सज्यलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादिध्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः । अयमर्थः - अप्रत्याख्यानप्रत्याख्यानावरण क्रोधयुगलं युगपत् प्रशमयति, ततः सज्ज्वलनक्रोधमित्यादि ॥७००॥
अथैr गाथ स्वयमेव सूत्रकृद्रथाख्याति- 'कोहं' गाहा, गतार्था, 'इत्थी' गाहा सुगमा, नवरं दर्शन त्रयोपशमानन्तरं नपुंसक वेदस्त्रीवेदी युगपदुपशमयति, अयं च नपुंसकवेदेन श्रेणि प्रतिपन्नस्य क्रम उक्तः । इहायं सम्प्रदायः- स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणि प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तद् यावनपुंसक वेदेनापि श्रेणि प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्व पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितु' लग्नः, स च तावतो यावनपुर सकवेदोदयाद्धायाद्विच१ तुलना- कर्मप्रकृतिमय वृत्तिः गा. ६५, प. १८३ B तः ॥
६० द्वार उपशम
श्रेणिः
गाथा
-006
७०८
प्र.आ. २०३
।।५९२।।