________________
प्रवचन
सारोद्धारे
सटीके
॥५६३ ॥
रमसमयः तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसक वेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तम्, तस्यामप्युदय स्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयितु' यतते, शेषं तथैव । यदा तु स्त्रीवेदेन श्रेणि प्रतिपद्यते तदा प्रथमतो नपुंसक वेदमुपशमयति, पश्चात् स्त्रीवेदम् तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः तस्मिव समये एक चरमसमयमात्रास्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितम् ततश्वरमसमये गतेऽवेदका सती पुरुषवेदास्यादिषट्करूपाः सप्त प्रकृतीर्युगपदुपशमयति, शेषं तथैव । पुरुषवेदेन पुनः श्रेणि प्रतिपद्यमानस्य स्वरूपं प्रथम गाथायामेत्रोक्तम् ||७०१-७०२।।
7
'तो पुवेयं' गाहा, उत्तानार्था, 'एयकमेण' गाहा, अनेनैव क्रोधोपशमक्रमेण त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः । नवरं - केवलं सज्ज्वलनाभिचलोमस्य त्रिभागे किट्टिवेदनाद्वालक्षणे लोभे इति त्रक्ष्यमाणो विशेषः, तमेवाह
'संखेयाइ" इत्यादि, गाथाचतुष्टयम्, किट्टीकृतानि - श्लक्ष्णीकृतानि सज्ज्वल लोभखण्डानि संख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसंख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकसुपशमयति ॥ ७०३ ७०४-७०५ ॥
- इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह - इह ही ' स्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धि चतुष्कदर्शन त्रिकरूप सप्तकोपशमे कृते सति भवत्यपूर्वः - अपूर्वकरण गुणस्थानके वर्तत इत्यर्थः । ततः परं 'माइ' ति 'न' सकवेदादिप्रकृती: प्रशमयन यावत्संख्येयानि बादरलोमखण्डानि
६० द्वारे
उपशम
श्रेणिः
गाथा
-006
७०८
प्र. आ. २०३
|| ५६३||