Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
Jant.........
m
usliladies
प्रवचनसारोद्धारे सटीके
११द्वारे स्थण्डिल| स्वरूपं गाथा ७०४
॥५९९॥
आपातदोषाः, द्वितीये च संलोकदोषा भवन्ति । प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यम् । उक्तं च"आवायदोस तइए बीए संलोगओ भवे दोसा । ते दोवि नथि पढमे तहिं गमणं मणियविहिणा उ ॥१॥"
[पञ्चवस्तुकः ४१८, तुलना-वृ. क. भा. ४३७] 'तथा उपधातः-उड्डाहादि प्रयोजनमस्य तदोपघातिक स्थण्डिलम् । तत् त्रिविधम्-आत्मौपचातिक प्रवचनौपचातिकं संयमोपघातिकं च । तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञा व्युत्सृजतो यत्तेस्तत्स्वामिनः सकाशात पिट्टनादिप्रसङ्गः। प्रवचनौपघातिक पुरीपस्थानम् । तद्धिजुगुप्सितमशुच्यात्मकत्वात, ततस्तत्रसंज्ञाव्युत्सर्गे इशा एते इति प्रवचनोपघातः स्यात् । संयमौपघातिकमङ्गारादिदाहस्थानम् । तत्र हि संज्ञाव्युत्सर्जने तेऽग्न्यारम्भिणोऽन्यत्रास्थाण्डिलेऽग्निप्रज्वालनादि कुर्वन्ति त्यजन्ति वा ता संज्ञामस्थण्डिले ततश्च संयमोपघात इति । यतश्चैते दोषा भवन्त्यतोऽनौपधातिके स्थण्डिले व्युत्सर्जनीयम् । एवमन्यत्रापि मावनीयम् २ ।
तथा समम्-अविषमम् 'विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना । पुरीषं प्रश्रवणं वा 'प्रलोठत् षट्कायानुपमर्दयतीति संयमविराधना च ३ । ' तथा 'अझुषिर' यत्तृणादिच्छन्नं न भवति । 'शुधिरे हि संझादि व्युत्सृजतो वृश्चिक-दन्दशकादिदशनेनात्मनो विराधना पुरीषप्रश्रवणाक्रमणेन च त्रस-स्थावरप्राणि प्रणाशनतः संयमविराधना ४ ।
१ तुलना-पञ्चवस्तुक:४१६, बृ. क.भा.व ४४६ ।। २ तुलना-पश्चवस्तुका ४२०, वृ. क.मा.॥४४७|| ३ प्रलोटत-इति ब. क.मा. वृत्ती (गा,४४७) पाठः ॥ ४ झुषिरे-सि-11५प्रणाशत:-सं.॥
प्र.आ.
MAHAMAN
॥५९९॥

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678