Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 620
________________ प्रवचन सारोद्धारे सटीके ॥५७६ ॥ सम्यक्त्वमपवर्तयितु ं तथा लग्नो यथाऽन्तर्मुहूर्तेन तदप्यन्तमुहूर्तमात्रस्थितिकं जातम्, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः । ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः । ततोऽनन्तरसमयेऽसौ क्षायिक सम्यग्दृष्टियते । इह यदि बज्रायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजस्य मिध्यात्वस्याविनाशात् । क्षीण मिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् क्षीणमकस्त्वप्रतिपतितपरिणामोsarयं त्रिदशेषूत्पद्यते । प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथा परिणामं सर्वगतिभाग्भवति । बद्धायुष्कोऽपि यदि तदानीं काल न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति । अथ क्षीणको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति १, उच्यते तृतीये चतुर्थे वा भवे, तथाहि--यदि देवगतिं नरकगतिं वा सङ्क्रामति तदा देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति । अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये गच्छति न सङ्ख्ये वर्षायुष्येषु ततस्तद्भवानन्तरं देवभवे देवभवाश्च च्युत्वा मनुष्यभवे ततो मोक्षं यातीति चतुर्थे भवे मोक्षगमनम् । तथा क्षीणससकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्विद्वैमानि hoda aayaमोहनीयोपशमार्थमपि यतते न शेषभवेषु बद्धायुष्कः । १ तुलना-सप्ततिकाटीका पृ. २०६B सः गाधा ६६, आवश्यकमलय. वृतिः गाथा १२१:१० १२६ ॥ ८६ द्वारे क्षपक श्रेणिः गाथा ६६२ ६६६ प्र.आ. १९७ ॥५७६ ॥

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678