________________
प्रवचन
सारोद्धारे सटीके
॥५७६ ॥
सम्यक्त्वमपवर्तयितु ं तथा लग्नो यथाऽन्तर्मुहूर्तेन तदप्यन्तमुहूर्तमात्रस्थितिकं जातम्, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदः । ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयः । ततोऽनन्तरसमयेऽसौ क्षायिक सम्यग्दृष्टियते ।
इह यदि बज्रायुः क्षपकश्रेणिमारभते अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति तद्वीजस्य मिध्यात्वस्याविनाशात् । क्षीण मिथ्यादर्शनस्तु नोपचिनोति बीजाभावात् क्षीणमकस्त्वप्रतिपतितपरिणामोsarयं त्रिदशेषूत्पद्यते । प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथा परिणामं सर्वगतिभाग्भवति । बद्धायुष्कोऽपि यदि तदानीं काल न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति ।
अथ क्षीणको गत्यन्तरं सङ्क्रामन् कतितमे भवे मोक्षमुपयाति १, उच्यते तृतीये चतुर्थे वा भवे, तथाहि--यदि देवगतिं नरकगतिं वा सङ्क्रामति तदा देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षं याति । अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये गच्छति न सङ्ख्ये वर्षायुष्येषु ततस्तद्भवानन्तरं देवभवे देवभवाश्च च्युत्वा मनुष्यभवे ततो मोक्षं यातीति चतुर्थे भवे मोक्षगमनम् । तथा क्षीणससकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्विद्वैमानि hoda aayaमोहनीयोपशमार्थमपि यतते न शेषभवेषु बद्धायुष्कः ।
१ तुलना-सप्ततिकाटीका पृ. २०६B सः गाधा ६६, आवश्यकमलय. वृतिः गाथा १२१:१० १२६ ॥
८६ द्वारे
क्षपक
श्रेणिः
गाथा
६६२
६६६
प्र.आ.
१९७
॥५७६ ॥