________________
MEAN
८६ द्वारे
प्रवचनसारोद्धारे सटीके
णि: गाथा
।।५७५॥
...
88
'शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्मध्यानोपगतः । तत्र प्रथमतोऽनन्तानुबन्धिना विसंयोजनाऽभिधीयतेइह श्रेणिमप्रतिपद्यमाना अपि अविग्तानतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यश्ची मनुष्या वा सर्वविस्तास्तु मनुष्या एव सर्वाभिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्धया परिणमन्तोऽनन्तानुबन्धिना क्षपणार्थ यथाप्रवनकरणा-ऽपूर्वकरणाऽनिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया ।
अनिश्रुतिकरणं च प्रातः सन् अनन्तानुवन्धिना स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासाक्रमेणाधम्तादायलिकामानं मुस्त्या उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति । आवलिकामानं तु स्तिवुकमक्रमेण वेद्यमानामु प्रकृतिषु सङ्कमनि । तदेवं शपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थ यथाप्रवृरयादीनि त्रीणि करणानि करोति । अनिवृत्तिकरणादायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म ताबवलनासक्रमेणोद्वलयति यावत्पल्योपमासङ्घय यमागमात्रभवतिष्ठते । ततो मिथ्यात्वदलिकं सम्यक्व-मिश्रयोः प्रक्षिपति, तच्चैव-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्घ यगुणम् , एचं यावदन्तमुहर्तचरमसमये आवलिकागतं मुक्त्वा शेष द्विचरमसमयमङ्क्रमितदलिकादमङ्खथे यगुणं सक्रमयति । आवलिकागतं तु स्तियुकमङ्क्रमेण सम्यक्त्वे प्रक्षिपत्ति । एवं मिथ्यात्वं क्षपितम् । ततोऽन्तमुहर्तेन सम्यगमिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति । ततः सम्यमिथ्यात्वमपि क्षपितम् , ततः
प्र.आ.
१ मतान्तरदर्शनार्थ द्रष्टव्या 'खबगसेढी' पू. १२ तः ॥२ कर्मप्रकृती उपशमनाकरणे गाथा तः द्रष्टव्यम॥