________________
प्रवचनसारोद्वारे
सटीके
॥३१९॥
तथा पुरुषलिङ्गे शरीरनिवृतिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः ७ तथा गृहस्थाः सन्तो ये सिद्धास्ते गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः ८, तथा नपुंसकलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते 'नपुं सकलिङ्गसिद्धाः ९, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्याभाववानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तीर्थस्य व्यवच्छेद सुविधिस्वाम्याद्यपान्तरालेषु तत्र ये जातिस्मरणादिना प्राप्तापवस्तीर्थव्यवच्छेदसिद्धाः १० तथा प्रतीत्य एकं किञ्चिद् वृषभादिकमनित्यतादिभावनाकारणं वस्तु बुद्धा बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ११, तथा एकस्मिन समये एकका एव सन्तो ये सिद्धास्ते एकसिद्धाः १२, तथा एकस्मिन् समये ये अनेके सिद्धास्ते अनेकसिद्धाः १३, तथा स्वयम्-आत्मना बुद्धा: - तवं ज्ञातवन्तः स्त्रयंबुद्वास्ते सन्तो ये सिद्धास्ते स्वयं बुद्धसिद्धाः १४, तथा बुद्धा - आचार्यास्तैर्वोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः १५ इत्येते: पूर्वोक्तस्तीर्थकरत्वादिभिः प्रभेदैः-विशेषैर्भणिताः प्रतिपादिताः सिद्धान्ते सिद्धानां भेदाः - प्रकाराः पञ्चदशसङ्ख्याः ।
'ननु तीर्थंकरसिद्धा ऽतीर्थंकरसिद्ध रूपमेदद्वये तीर्थसिद्धा ऽतीर्थसिद्धरूपभेदद्वये वा शेषमेदाः सर्वेऽप्यन्तभवन्ति तत्किमर्थं शेषभेदोपादानम् 3, सत्यमन्तर्भवन्ति परं न विवक्षितभेदद्वयोपादानमात्रात् शेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं चैष शास्त्रारम्भप्रयास इति शेषभेदोपादानमिति ॥ ४७३-४७४॥१४९॥
१ नपु ंसकसिद्धाः सं ॥ २ एकस्मिन् एकस्मिन् समये जे ॥ ३ तुलना नग्दिसूत्र हा. टी. पृ. ३६ ॥
४९ द्व
सिद्धमे
माथा
४७३
४७४
प्र.आ.
११३
॥३११|