Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 11
________________ १ सर्गः] नेमिनिर्वाणम् । सदनरत्नाकरचारुकाची महीमिवान्यां यदुवंशवन्यः । अपालयत्तां विजयाभिधानं नृपः समुद्रोपपदं दधानः ॥ ५९ ॥. झलझलदिग्गजकर्णकीर्णैर्वातैरिवाशासु सदा प्रदीतः। यस्यारिभूभृद्वनवंशदाहे प्रतापवह्निः पटुतां बभार ॥ ६० ॥.... यदर्धचन्द्रापचितोत्तमाझेरुदण्डदोस्ताण्डवमादधानः। .. विद्वेषिभिर्दत्तशिवाप्रमोदैः कैः कैर्न दधे युधि रुद्रभावः ॥ ६१॥ यस्मिन्भुवो भर्तरि सत्यसंधे त्रयी गतिभूमिभृतां बभूव । तत्पादसेवा मरणं रणे वा कचिन्निवासो विपुले वने वा ॥ ६२.॥ द्वे कौतुके हन्त यदातपत्रच्छायातलस्थायिनि भूतलेऽस्मिन् । संतापमापद्यदसाधुवर्गों यदृष्टिरप्यस्खलिता बभूव ॥ ६३ ॥ होलापदूरीकृतकोपलज्जाः सन्नाभिमानास्तनवप्रभावाः।। मन्त्रप्रयोगादबलाः सहेलं येनाक्रियन्त प्रतिपक्षभूपाः ॥ ६४ ॥ यस्मिञ्जगज्जेतरि याचकेभ्यो प्रामाननन्तान्वितरत्यजस्रम् । स्पर्धानुबन्धादिव भूरिदेशत्यागं वितेने यदरातिवर्गः ॥६५॥ न व्यञ्जनत्वे परवर्णयुक्तिरासीन वाञ्छत्कातः प्रतीमः। .. यद्वैरिनारीनयनारबिन्देष्वसंधिकार्य प्रकटीबभूव ॥ ६६ ॥ श्रोतुं यशः कान्तमशक्नुवन्तद्वैरिणो ये युधि मृत्युमीयुः । तैः कष्टमश्रावि वधः ख एव दिव्यानाभिर्दिवि गीयमानः ॥ ६७ ॥ १. समुद्रविजयाभिधानम्. २. बाणकर्तितम् , चन्द्रभूषितं वा। शिवा . गाली, पार्वती वा । रौद्ररूपम्, शिवत्वं त्र. ३. 'हा' इत्यालापेन दूरीकृते.कोपलज्जे यैस्ते, हालया मद्येनापदूरीकृते कोपलज्जे याभिस्ताः । सनोऽभिमानो येषां ते अत एवास्तो नवः प्रभावो येषां ते, सुन्दरनाभेर्मानेनास्तो नवानां यूनां प्रभावो धैर्यरूपो याभिस्ताः । यद्वा-सन्नोऽभिमान आ समन्तात्तनोचवं यासां ताः । यद्वा-सुन्दरो नाभिमानो यासां ताः, स्तनयोर्वप्रभाव उच्चता आसु ताः. ....

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 124